________________
४१५
आह्निकम् ]
प्रमाणप्रकरणम् न प्रियङ्गुकृष्णशकुनिजम्बूष्विति । यत्र तु शिष्टप्रसिद्धिर्नास्ति तत्र म्लेच्छेभ्योऽपि तदर्थव्युत्पत्तिराश्रीयते, यथा पिकनेमतामरसशब्देषु। म्लेच्छप्रसिद्धेरप्यभावे निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः परिकल्पनीयः। तेनाश्विनसूक्तप्रक्रमाज्जरणमरणनिमित्तौ जर्फरीतुर्फरीतू इति द्विवचनान्तसरूपावेतौ शब्दावश्विनोर्वाचकाविति गम्यते, एवमन्यत्राप्युत्प्रेक्षणीयम्। तदनेनापि निमित्तेन न मन्त्राणामविवक्षितार्थत्वं 5 वक्तव्यम् ।
अमी तस्मादथप्रकटनमुखेनैव दधति क्रियार्थत्वं मन्त्रा न तु पठनमात्रेण जपवत् । न तद्द्वारेणापि श्लयितुमतः शक्यत इदं
प्रमाणत्वं वेदे सकलपुरुषार्थामृतनिधौ ॥ नामथेयपदसार्थक्यम्
इदमिदानी परीक्ष्यते, 'उद्भिदा यजेत' 'चित्रया यजेत पशुकामः' 'अग्निहोत्रं जुहुयात् स्वर्गकामः' 'श्येनेनाभिचरन् यजेत' 'वाजपेयेन स्वाराज्यकामो यजेते'ति श्रूयते। तत्र किमुद्भिदेति चित्रयेति अग्निहोत्रमिति श्येनेनेति वाजपेयेनेति गुणविधय एते,तत्तत् कर्मनामधेयानि वेति ? किमनेन परीक्षितेन प्रयोजनम् ? उभयत्रापि 15 प्रामाण्यं नोपपद्यते इति तदर्थमेवेदं परीक्ष्यते। यदि तावद् 'व्रीहिभिर्यजेत' 'दध्ना जुहोती तिवद् गुणः कश्चिदुद्धिदादिपविधीयते अनेन द्रव्यविशेषेण यागः कर्तव्य इति तदा भावार्थस्य यज्यादेरन्यतोऽवगतिम॒ग्या, अनवगते भावार्थे गुणविधा'वराहं गावोऽनुधावन्ति' इत्यतस्तु वाक्यशेषात् सूकरे वराहशब्दो न कृष्णशकुनौ काके; न हि तं गावोऽनुधावन्तीति । 'अप्सुजो वेतसः' इत्यमुष्माच्च वाक्यशेषाद् वञ्जुले 20 वेतसशब्दो न जम्ब्वाम् । निगमेति निगमा निघण्टवः, अस्येयन्ति नामानीत्येवंप्रायाः। मन्त्रार्थप्रदर्शनपराणि वेस्वाक्यान्येव यानि यथा 'युञ्जानः प्रथमं मनः' इत्यस्य' मन्त्रस्य 'प्रजापतिर्वे युञ्जानः' इत्यादिको व्याख्यारूपो निगम उच्यते । व्युत्पत्त्यार्थप्रतिपादनं येन क्रियते तन्निरुक्तम्।
तत्र किमिति उद्भिद्यते मृत् खन्यते येन तदुद्भित् कुद्दालादि, तेन ‘उद्भिदा 25 यजेत' इति गुणविधिः, यवैर्यजेतेतिवत् ।