________________
४१६
5
ر
0
न्यायमञ्जय
ननु यजेतेति रूपसाम्यादुभयत्रापि संबध्यते यजेत स्वाराज्यकामो वाजपेयेन चेति तुल्यमस्योभयत्रापि रूपम् ? न । रूप साम्यस्यासिद्धत्वात् । स्वाराज्यं प्रति यजिर1) प्राप्तत्वाद् विधीयते गुणश्व प्रति प्राप्तत्वादनूद्यते । अनवगते हि कर्मणि गुणविधानमघटमानमित्यवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्यो भवति प्रधानञ्च । स एव स्वाराज्यं प्रति विधेयत्वादुपादेयो गुणश्चेति विरुद्धरूपापत्तेर्न यजिरुभाभ्यां युगपत् सम्बन्धुमर्हति । यः स्वाराज्यं साधयितुमिच्छेत् स यजेतेत्यन्यद्रूपम्, यद् यजेत तद् वाजपेयेनेत्यन्यपद्रूम् । तस्माद् भावार्थप्राप्तौ प्रमाणान्तरापेक्षणाद् गुणविधिपक्षे तदप्रमाणं वचनम् । अथैष दोषो मा भूदिति नामधेयपक्ष आश्रीयते ?
25
[ चतुर्थम्
नस्यानुपपन्नत्वात् । 'आग्नेयोऽष्टाकपालो भवति' 'अग्निहोत्रं जुहोती 'ति विध्यन्तरेण भावार्थे चोदिते तत्र 'व्रीहिभिर्यजेत' 'दध्ना जुहोती 'ति ।
ननु ' वाजपेयेन स्वाराज्यकामो यजेते' त्यनेनैव वाक्येन यागाख्यो भावार्थ: चोदयिष्यते गुणश्च तस्मिन् वाजपेयाख्यो विधास्यते इति को दोषः ? कथं न दोष: ? अर्थद्वयविधानेन वाक्यभेदप्रसङ्गात् । यागेन स्वाराज्यं कुर्यादित्ये कोऽर्थः, वाजपेयेन गुणेन यागं कुर्यादिति द्वितीयोऽर्थः न च सकृदुच्चरितं वाक्यमर्थ - द्वयविधानाय प्रभवति ।
गुणश्च तस्मिन् वाजपेयख्य इति । वाजमन्नं वाजञ्च तत् पेयञ्चेति यवागूरुच्यते, सगुण:, तेन यागः कर्तव्य इति ।
1
रूपसाम्यादिति । तदेव यागाद्यात्मकं रूपमुभयत्रापि सम्बध्यमानस्य, अतस्तन्त्रेगोभयत्र सम्बध्यत इति । प्रधानञ्चेति । अन्येनोपक्रियमाणत्वात् प्रधानम् । तस्माद् भावार्थप्राप्ताविति । वैदिकानि तावद विधायकानि सर्वाण्येव गुणविधाने पर्यवसितानि सर्वाणि हि सोपपदानि, उद्भिदा यजेतेतिवत् । तच्छुद्धस्य यागस्य विधायकमवश्यमन्यत् प्रमाणान्तरं मृग्यम्, अतश्च प्रमाणान्तरसम्प्रपेक्षत्वादप्रमाणमिति प्रभाकरमतम् । तथा च आह 'तस्मात् कर्मविधानासम्भवादप्रामाण्यम् । कथम् ? लौकिककर्माश्रियणात् । अवश्यं हि गुणविधिपरे वाक्ये लौकिकं कर्माश्रयणीयम् । वैदिके न खलु बाधा दोषः किन्तु असम्भवः। कथमसम्भवः ? सर्वत्रोपपदश्रुतेः । एवमपि किमित्यप्रामाण्यम् ? धात्वर्थेऽन्यतः प्रवृत्तिर्मृग्या । अन्यतश्चेत् सापेक्षत्वप्रसङ्गः, सापेक्षत्वाच्चाप्रामाण्यं प्रसक्तम्" इत्यादि ।