________________
४१७
आह्निकम् ]
प्रमाणप्रकरणम् तदेषामुद्भिदादिपदानां विस्पष्टमेवानर्थक्यम्। यावदेवोक्तं भवति यजेतेति तावदेव वाजपेयेनेति । एवमानर्थक्यादन्यत्राप्यसमाश्वासः। नामधेयपदसार्थक्यम्
अत्रोच्यते, गुणविधिपक्षे यथा भवानाह तथैव, नामधेयपक्ष एवतु श्रेयानित्यभ्युपगम्यते। तथा हि भावार्थस्य फलं प्रति करणत्वात् तत्सामानाधिकरण्येन तृतीया , प्रयुज्यते तत्र वाजपेयेनेति । साध्यश्च भवन् भावार्थः करणभावमनुभवतीति साध्यत्वापेक्षया तत्सामानाधिकरण्येन क्वचिद् द्वितीयापि प्रयुज्यते अग्निहोत्रं जुहोतीति।
ननु गुणवन्नामापि विधातव्यमेव अनभिहितस्यानवगमात् । ततश्च गुणविधिपक्षस्पृशो वाक्यभेदादिदोषास्तदवस्था एव ? नैतदेवम् । न ह्यस्य कर्मण इदं नाम । वेदितव्यमिति संज्ञासंज्ञिसम्बन्धं वेदो विदधाति । योगेन केनचित् प्रवर्त्तमानं नामधेयमवगम्यत एव, उद्भेदनमनेन पशूनां क्रियत इत्युद्भिदम्, दधि मधु घृतं धाना उदकं तत्संसृष्टं प्राजापत्यमिति नानाविधविचित्रद्रव्यसाध्यत्वाच्चित्रा, अग्नये होत्रमस्मिन्नित्यग्निहोत्रम्, यथैव श्येनो निपत्यादत्ते एवमनेन द्विषन्तं भ्रातृव्यमादत्ते इत्यर्थवादात् श्येन एव श्येनो यागः, वाजमन्नं पीयतेऽस्मिन्निति वाजपेयो यागः, 15 तस्मात् कर्मनामान्येतानि।
यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं तदपि न चारु, नामापि गुणफलोपबन्धनार्थवदिति अभियुक्तैः परिहतत्वात् । एवंनामेदं कर्मत्यवगम्यते तत्र गुणो द्रव्यदेवतादिः, फलञ्च तस्य स्वर्गः पश्चादवगम्यत इति । तस्मान्नामधेयपदानामविरुद्धोऽन्वयः। क्वचित् पुनरप्राप्ते भावार्थे सगुणमेव तत्कर्म चोद्यते, यथा 'आग्नेयोऽ.
गुणविधिपक्षस्पृश इति । फलं प्रति विधेयत्वाद् धात्वर्थस्य, नामविधि प्रति , चोद्देश्यत्वात् । संज्ञासंज्ञिसम्बन्धमिति । कार्यपरत्वाद् वेदस्येति भावः। योगेन केनचिदित्यादिना नामधेयस्यानूद्यमानत्वं दर्शयति । योगेन पशूनानुभेदनेन फल. भूतानां प्रकाशनेन यत् सिद्ध मुद्भित्त्वं तदनेनानूद्यते न विधीयत इत्यर्थः। येनानेन यागविशेषेण पशुकामो यजते भवत्येवासावुद्भित् पशूना सुभेदनादित्यर्थः ।
गुणफलोपबन्धेनार्थवदिति। तत्सम्बन्धित्वेन गुणफलयोविधानादित्यर्थः ।