________________
न्यायमञ्जयां
४१५
[ चतुर्थम् ष्टाकपालोऽमावास्यायां पौर्णमास्याञ्च च्युतो भवति' इति । यथा वा 'एतस्यैव
आग्नेयोऽष्टाकपाल इति । अच्युत इत्युभाधामपि दर्शपूर्णमासाभ्यां न च्यवत इति । अत्र हि अष्टकपालेषु यः संस्कृतः साष्टाकाल आग्नेयो भवति, तस्य पुरोडाशस्याग्नेयता विधीयते; न ह्यविधीयमान आग्नेयो भवति । स पुनरष्टाकपाल एवमाग्नेयो 5 भवति यदग्नये संकल्प्य दीयते, संकल्पमन्तरेणाग्नेयत्वाभावात् । संकल्पितस्य यागेन विना अर्थवत्ता नास्तीत्येवमनेन प्रकारेण तद्धितान्तनिर्देशान्यथानुपपत्त्या यागो विहितः । स चैवं द्रव्यदेवतासम्बन्धात्मको यागो विधायमानो न शक्यः सम्बन्धिनावग्निपुरोडाशावन्तरेण विधातुमिति सगुणस्य कर्मणो यागस्य विधानम्। तथा च जैमिनिः
"तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थेन चेदन्येन शिष्टाः' इति । यथा वा एतस्यैवेति। 10 “समेषु कर्मयुक्तं स्यात्' इत्यत्रतच्चिन्तितम्। त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेक
विशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेतेति । तत: पुनरुक्तम् एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति । तत्र प्रथमं त्रिवृत्स्तोमकोऽग्निष्टुन्नामको यागः स चाग्निष्टोमोऽग्निष्टोम संस्थरतस्य वायव्या या ऋचः तास्वेकविंशमेकविंशत्या स्तोत्रीयाभिऋग्भिनिर्वोऽग्निष्टोमाख्यः स्तोत्रविशेषः। पश्चादेतस्यैवेत्याह । अत्र विशेषः रेवत्याख्यासु ऋक्षु वारवन्तीयाख्यस्याग्निष्टोमसाम्नो विधानम्। तत्र संदेहः। किं पूर्वप्रकृतस्याग्निस्तुतोऽग्नि ठोमस्य यो गुणो वारवन्तीयाख्यस्तस्मिन् पशवः फलम् अथवा एतेन यजेतेति कर्मान्तरविधानमिति । तत्र पशुकामो यदि यजेतानेन यदेवं कृत्वेति सम्बन्धादेतस्यैवेत्यनेन तस्यैव परामर्शात् तस्यैव गुणविधिरिति पूर्वपक्षिते “समेषु कर्मयुक्तं स्यात्” इति सिद्धान्तः। समेष्वेवंजातीयेषु रेवत्यादिवाक्येषु कर्मयुक्तं फलमपूर्वात् कर्मणः फलं न पूर्वस्यैव गुणविधिरित्यर्थः। कथम् ? गुणविधिपक्षे वाक्यभेदात् तस्य तावत् प्रकृतस्य रेवत्यो न सन्ति ता विधेयास्तासु चाग्निष्टोमसाम नास्ति पूर्वसिद्धं तदपि विधेयम् । सिद्धान्ते तु रेवत्याधारवारवन्तीयस्तोत्रनिर्वृत्तिपूर्वकत्वविशिष्टो यागो विधीयते । तदा च विशेषणानामविधाने कथं तद्विशिष्टस्य यागस्य विधिरिति बलात् सगुणस्य कर्मणो विधानमायाति । यदा चैवं न्यायस्तदा एतस्येत्येवं धर्मकस्येति व्याख्येयम् । अत्र च 'यागप्रवृत्तौ सत्यां साम्न: करणमुपपद्यते न तु पूर्वम्' इत्याक्षिण्य प्राभाकरैः 'प्रतीतिपौर्वापर्ये क्त्वाश्रुतिर्न प्रयोगपौर्वापर्ये' इत्यादि समर्थित