________________
आह्निकम् ]
प्रमाणप्रकरणम्
४१९
रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते ति। अलं शास्त्रान्तरोक्तगहनकथाविस्तरेण इति नास्ति नामधेयद्वारेणापि प्रामाण्याक्षेपः। सर्वप्रकारमेब सिद्धं वेदप्रमाणत्वमिति ।
वेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः।
न तु मीमासकख्याति प्राप्तोऽस्मीत्यभिमानतः ॥ कार्य एवार्थे वेदाः प्रमाणमिति शङ्का
नन्येवं विध्यर्थवादमन्त्रनामधेयानां कायौं पयिकत्वदर्शनात् कार्य एवार्थे वेदाः प्रमाणमित्युक्तं स्यात् । ततः किं सिद्धेऽर्थे तस्य प्रामाण्यं हीयते ? ततोऽपि किं भूयान् भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत् ? सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम् ।
10 अत्र केचिदाहः, सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम् । तथा हि गृहीतसम्बन्धः शब्दोऽर्थमवगमयति, सम्बन्धग्रहणञ्चास्य वृद्धव्यवहारात् । वृद्धानाच व्यवहारः पानीयमानय गां बधान ग्रामं गच्छेति कार्यप्रतिपादकरेव शब्दैः प्रवर्तते इति तत्रैव व्युत्पद्यन्ते बालाः। प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुञ्जते। न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किञ्चित् । प्रयोजनमभिनिवर्तत इति तस्य न प्रयोगयोग्यत्वम् । अप्रयुज्यमानस्य च न सम्बन्धग्रहणम्। अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् । अप्रतिपादकस्य च न प्रामाण्यम् । अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादादवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम् । आख्यातपदेन साध्यरूपोऽर्थ उच्यते नामधेयपदेन च सिद्धः । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति वाक्यस्य साध्यार्थनिष्ठतेति , न भूतार्थविषयं तस्य प्रामाण्यम् । अतश्च कार्येऽर्थे शब्दस्य प्रामाण्यम्, यतश्च कार्यरूपोऽर्थः शब्दस्यैव विषय इति । न च शब्दः प्रमाणतां सिद्धेऽर्थे लभते । सिद्धोऽर्थः प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः
मित्यास्तां तावदेतत् । स एवानेना युक्तम् अलं शास्त्रान्तरेत्यादि।
समुच्चारणे सहोच्चारणे।