________________
४२०
न्यायमञ्जयां
[ चतुर्थम् शब्दो भवति । ततश्च तद्ग्राहिणः प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यान्न शब्दस्य । शब्दश्च तदुपस्थापनमात्रनिष्ठ एव स्यात्। तस्माच्छब्दप्रामाण्य मिच्छता कार्य एवार्थे तत्प्रामाण्यमङ्गीकर्तव्यमिति । अकार्यऽपि अर्थे वेदाः प्रमाणम् ।
अत्रोच्यते। यद् ब्रूषे कार्य एवार्थे वाक्यस्य व्युत्पत्तिरिति तदयुक्तम् । एवं हि सिद्धरूपोऽयं तस्यार्थ इति कथं त्वयोच्यते ? न ह्यलब्धव्युत्पत्तेः शब्दादर्थप्रत्ययो युज्यते । अर्थप्रतीतिश्च ततो दृश्यते व्युत्पत्तिश्च तत्र नास्तीति चित्रम् । न च कार्यपरैरेव शब्दोके व्यवहारो वर्तमानापदेशकेभ्योऽपि व्यवहारप्रवृत्तेस्तत्रापि व्युत्प
त्तिर्भवत्येव । अपि चागुल्यादिना पुरोऽवस्थितमर्थ निर्दिश्य यदा कश्चित् कथयत्य10 स्येदं नामेति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः 'अस्माच्छब्दादयमर्थः
प्रतिपत्तव्यः इति । कार्योपदेश एवासौ इति चेत् ? तादृशानामक्षराणामश्रवणात् । अस्येदं नामेति हि श्रूयते नास्मादयं प्रतिपत्तव्य इति। अस्येदं नामेत्येषामेवाक्षराणामेषोऽर्थ इति चेद ? न। अपदार्थस्य वाक्यार्थत्वायोगात । न चैवंकल्पयितुमपि शक्यते,
अस्येदं नामेत्येतावतैव च तत्प्रतिपत्तिसिद्धः प्रतिपत्तिकर्त्तव्यताविधानस्य निष्प्रयो15 जनत्वात् । कार्यपरादपि शब्दाद् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी
भवति किन्त्वेकैकपदादावापोद्वापद्वारकपदार्थपर्यन्ता सा भवति । पदार्थव्युत्पत्तिसंस्कृतमतेश्च अभिनवकविविरचितवर्तमानापदेशश्लोकश्रवणेऽपि वाक्यार्थप्रतीतिदृश्यत एवेति नाव्युत्पत्तिकृतमप्रामाण्यम् । न चासौ भूतार्थप्रतिपादकशब्दजनिता
प्रतीतिर्बाध्यते सन्दिग्धा वा। तेन प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत् प्रमाण20 फलमेव सा भवितुमर्हति ।
यत्पुनरभ्यधायि कार्येऽर्थे प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः, न सिद्धेऽर्थे,प्रमाणान्तरसापेक्षत्वादिति, तदसत् । प्रवर्त्तयितुमेव न शक्नोति इत्यवो
20
प्रतिपत्तिकर्तव्यताविधानस्य निष्फलत्वादिति । यथा भुजौ प्रवृत्तस्तृति प्रति न नियुज्यते स्वत एव भावादेवं शब्दश्रवणादेव प्रतिपत्तेः सिद्धत्वात् 'प्रतिपत्ति कुरु' 25 इति प्रतिपत्तिकर्तव्यताविधानं निष्फलम् ।