________________
माह्निकम् ]
प्रमाणप्रकरणम्
४२१
चाम, वक्ष्यामश्च वाक्यार्थचिन्तायामपि। प्रमाणान्तरसापेक्षत्वं तस्य प्रत्युत प्रामाण्यमावहति। किञ्चेदं सापेक्षत्वमिति वक्तव्यम्। कि सिद्धार्थाभिधायिनः शब्दस्योत्पत्तावेव प्रमाणान्तरापेक्षत्वम्, उत तद्विषयस्य प्रमाणान्तरपरिच्छेदयोग्यत्वमित्युभयथातिप्रसङ्गः। उत्पत्तौ प्रमाणान्तरसव्यपेक्षतया यद्यप्रामाण्यं वर्ण्यते ? हन्त हतमनुमानम्, तस्योत्पत्तौ प्रत्यक्षादिसापेक्षत्वात् । वणितश्च तत्पूर्वकं त्रिविधमनुमानमिति। तद्विष- 5 यस्य प्रमाणान्तरग्रहण योग्यतायान्तु तदप्रामाण्ये प्रत्यक्षादीनां सर्वेषामप्रामाण्यं प्राप्नोति, प्रमाणसंप्लवस्य प्राक्प्रतिपादितत्वात् । किञ्चलौकिकेषु वाक्येषु अधीष्व' 'गां बधान' 'ग्रामं गच्छे'त्येवमादिष्वन्वयव्यतिरेकाभ्यां हिताहितप्राप्तिपरिहारसाधनसामर्थ्यावगमेन प्रवृत्तिसिद्धः विनियोगनिष्ठ एव विधिर्भवति । अप्रवृत्तप्रवर्तनात्मकनिरपेक्षनिजव्यापारवधुर्यात् कार्यपरत्वानुपपत्तेः अनुवादमात्रं विधि- 10 वचनमिति कार्यार्थप्रामाण्यवादिनां सर्वमेव लौकिकं वाक्यमप्रमाणं स्यात् ।
ये तु भूतार्थवादिषु प्रवृत्तिनिवृत्तिकारिषु विधिनिषेधौ कल्पयन्ति ते नितरामृजवः। श्रूयमाणोऽपि विधिरनुवादीभवति यत्र तत्राश्रुतः कल्पयितव्य इति किमन्यदेतत् परमार्जवम् । प्रवृत्तौ तु तत्र विधिरप्रयोजक एव, अन्वयव्यतिरेकाभ्यां पुरुषार्थसाधनसामर्थ्यावगमात् पुरुषप्रत्ययाद् वा लोकेषु प्रवृत्तिसिद्धः, तत्रतत् 15 स्यात् । लौकिकवाक्यानां विवक्षापरत्वान्न कार्यार्थत्वम् ।
किञ्च लौकिकेष्विति । त्र किञ्च लौकिकेष्विति आरभ्य अनुवादमात्रं विधिवचनमिति एवंवदतां कार्यप्रामाण्यवादिनामिति समन्वयः । हिताहितेति। हितहितप्राप्तिपरिहारयोर्यत्साधनं सिद्धिस्तत्र सामर्थ्यमवगत्य ग्रामगमनादेस्तत्र ग्रामगमनादौ प्रबृत्तेः । विनियोगनिष्ठ एव । 'ग्रामं गच्छ ग्रामगमनाद्धितं भवति' इति हितप्राप्तिप्रामगमनयोर्यः ।। साध्यसाधनसम्बन्धलक्षणो विनियोगस्तन्निष्ठ इति। अनुवादमात्रमिति । प्रवर्तनाभिधानद्वारेण हि प्रवृत्तौ तात्पर्य लिङादेः, सा चान्यतः सुखसाधनत्वावगमनादेर्या प्राप्ता तामसावनुवदति नापूर्वी विदधाति ।
ये तु भूतार्थवादिष्विति । 'निधिमानयं प्रदेशः' 'प्रतिरोधकवानयमध्वा' इत्यादिषु 'गृहाण' ‘मा गमः' इत्यादि कल्पयन्ति । तत्राश्रुतः कल्पयितव्य इति कल्प- 25 यित्वाप्यनुवादीकर्तव्यः, तद् वरमकल्पनैवेत्यभिप्रायः। न च कल्पनामपि विना काचित् क्षतिरित्याह प्रवृत्तौ विति।