________________
5
10
न्यायमञ्जयां
[चतुर्थम् अपि च पौरुषेयाद् वचनादेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थप्रतीतिः। वैदिकानि पुनरपौरुषेयतया कार्यपराण्येव वाक्यानीति, एतदपि न पेशलम् । अपौरुषेयस्य वचसः प्रतिक्षिप्तत्वात्, वेदेऽपि कर्तुरीश्वरस्य साधितत्वात् । न च पुरुषवचनमपि विवक्षापरमिति दर्शितम् । तथा हि न विवक्षा वाक्यार्थो देवदत्त गामभ्याज कृष्णां दण्डेनेति पदग्रामे विवक्षावाचिनः पदस्याश्रवणात्, अपदार्थस्य वाक्यार्थत्वानुपपत्तेः । न च विषभक्षणवाक्यस्येव परगृहे भोजननिवृत्तौ पौरुषेयवचसो विवक्षायां तात्पर्यशक्तिरपि प्रभवति । न हि सर्वात्मनाभिधात्री शक्तिमवधी: येव तात्पर्यशक्तिः प्रसरतीति न विवक्षापरत्वम् । कथं तहि पुरुषवचनादुच्चारिताद् विवक्षावगम इति चेद, अनुमानादिति ब्रमः। कार्यत्वात् पदरचनायाः पुरुषच्छापूर्वकत्वमनुमीयते । अर्थावगमपुरःसरञ्च पुरुषवचनाद् विवक्षानुमानमेवमयं वेद एवमयं विवक्षतीति। अर्थोपरागरहितस्य विवक्षामात्रस्य जीवतां निसर्गत एव सिद्धः। अय. मर्थो विवक्षित इत्यर्थोपरज्यमाना तु विवक्षा न शक्या अर्थेऽनवगतेऽवगन्तुम् । अर्थश्चेत् प्रथममवगतो वाक्यान्न तहि तद्विवक्षापरम्, अर्थपरमेव भवितुमर्हति ।
लोकवाक्यानां विवक्षावर वे बाह्येऽर्थे सम्बन्धग्रहणासम्भवाद् वेदादपि वाक्यार्था15 वगमो न स्यादित्यलं प्रसङ्गन । तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम् ।
यत्पुनरभाणि, नाख्यातशून्यं वाक्यं प्रयोगार्हम्, तेन विना नैराकाझ्यानुपपत्तेः। आख्यातस्य च भव्यरूपोऽर्थो, न नाम्ना इव भूतः, भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यते इति सर्वत्र कार्यपरत्वम्, तदपि न साम्प्रतम् । पुत्रस्ते जातः कन्या
ते गर्भिणीति सुखदुःखकारिणामनुपदिष्टप्रवृत्तिकानामनाख्यातानामपि वाक्यानां 20 लोके प्राचुर्येण प्रयुज्यमानत्वात् ।
अथ सुखी भव दुःखी भवेति तत्र कार्यपरत्वं व्याख्यायते, तदपि न युक्तम् । ईदृशानामक्षराणामश्रवणात, कल्पनायाश्च निष्फलत्वात् । न हि भवेत्युपदेशादसौ सुखी भवति सुखीभवितुं वा क्वचित् प्रवर्तते, उपाये पूर्वमेव प्रवृत्तत्वात्, उपेये च
एवमयं पुरुषो वेदेति । एवमस्य ज्ञानमस्तीत्यर्थः। न हि सर्वात्मनाभि25 धात्रीमिति । पदानां हि पदार्थेऽभिधात्रीः शक्तिः, पदार्थसंसर्गात्मके वाक्यार्थे तात्पर्यशक्तिः, पदार्थाभावे च कथं तत्संसर्गात्मकवाक्यार्थलाभः।।
उपाये पूर्वमेवेति । पुत्रजननाद् यदुत्पद्यते सुखं तस्य पुत्रजननात्मको व्यापार