________________
आह्निकम् ]
प्रवृत्त्यनुपपत्तेः । किन्तु पुत्रजन्मश्रवणत एवासौ सुखीभवति । तथा कस्यचिदुत्तरीयावगुण्ठिततनोनिद्रायमाणस्य क्वचित् केनचित् केलिना रज्जुवेष्ठितवपुषः पश्चात् प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित् प्रयुज्यमानं रज्ज्वा वेष्टितोऽसीति वचः श्रवणपथमवतरति तत् सिद्धार्थबोधकमपि प्रमाणम् । न च तत्र मा भैषीरिति प्रयोगकल्पनाप्रयोजनम् । रज्जुवेष्टनप्रत्यया- 5 देव भयनिवृत्तेः सिद्धत्वात् । तथा च विषमविषधराधिष्ठितोऽयमध्वा निधियुक्तोऽयं भूभाग इति भूतार्थख्यापकं वचो दृश्यते न च तदप्रमाणम् । न च तत्र मा गास्त्वमनेनाध्वना, निधि गृहाणेति विधिनिषेधपरत्वं युक्तम्, एषां पदानामश्रवणात् 1
४२३
प्रमाण प्रकरणम्
ननु वक्तुः प्रेक्षापूर्व कारितया निष्प्रयोजनवचनानुच्चारादवश्यं मा गा गृहाति कार्याक्षराणि हृदये परिस्फुरन्ति कथविदालस्यादिना नोच्चारितानीति, 10 नैतद्युक्तम् । प्रेक्षापूर्व कारित्वादेव वक्तुः यथावस्थित वस्तुस्वरूपमात्रख्यापकवचनोच्चारणमेव युक्तम्, अर्थात् प्रवृत्तिनिवृत्त्योः सिद्धत्वात्, पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः, सर्पबन्धजीविनो हि सपन्नगः पन्था उपादेयतयावभाति, वीतरागस्य च ब्रह्मविदो वित्तैषणाव्युत्थितस्य गोविन्दस्वामिन इव निधिरपि यतया परिस्फुरतीति कस्मै किमुपदिश्यताम् । वस्तुस्वरूपे तु कथिते यथाहृदय - 15 वत्तिरागद्वेषानुवर्तनेन कश्चित् तत्र प्रवर्ततां कश्चित् ततो निवर्त्ततामिति भूतार्थकथनमेव लोके प्रेक्षावान् करोति, न विधिनिषेधौ प्रयोक्तुमर्हतीति ।
उपायः ।
येsपि ब्रुवते सर्वत्र प्रतिपत्तिकर्तव्यताविधानमेवादौ वेदितव्यम्, अविधिकस्य वाक्यस्य प्रयोगानर्हत्वादिति तेऽपि न साधु बुध्यन्ते । विदितशब्दार्थसम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तयेः स्वतः सिद्धत्वेनानुपदेश्यत्वात् । असिद्धायां वा 20
و
वित्तंषणाभ्युत्थितस्य धनाभिलाषनिरपेक्षेण वर्तमानस्य । गोविन्दस्वामिन इव इति । भगवान् गोविन्दस्वामी हि धनाहरणाय पुरा किं किं न व्यधत्त तथापि कृतयत्नातिशयो न कामपि यदा धनमात्रामाससाद तदा कालेन महद्वैराग्यमस्य प्रादुरभूत्, तथाविरक्तच काविन्निविपलभ्य तदुपरि मूत्रपुरीषोत्सर्गमकरोदिति श्रूयते ।
25