________________
४२४
न्यायमञ्जय
प्रतिपत्तौ प्रतिपत्तिकत्तव्यतापि कुतः प्रतीयेत ?
ननु कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते, कार्याकाङ्क्षानिबन्धत्वात् सम्बन्धस्य, तेन सर्वत्र कार्यपरत्वमुच्यते ? नैष नियमः कार्या - काङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति वर्त्तमानापदेशकानामपि प्रेक्षापूर्व कारिवाक्या5 नामितरेतरसंसृष्टार्थ प्रतीतिजनकत्वदर्शनात् । न हि दशदाडिमादिवाक्यसदृ शि वर्त्तमानापदेशीनि वचांसि भवन्ति । कार्यनिबन्धने हि सम्बन्धे तद्रहितानामनन्वय एव स्यात् । दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम् । अपि च लिङन्त पदयुक्तेऽपि वाक्ये पदार्थान्तरानां परस्परमन्वयो दृश्यत एव । स कथं समर्थयिष्यते ? कार्याकाङ्क्षाबन्धने हि, कार्ये सर्वेषामन्वयो न परस्परमिति ।
अथ बूयात् सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुण कहायनीन्यायेन वाक्यीयः परस्परान्वयोऽपि सेत्स्यतीति ? हन्तं ! तर्हि परस्परान्वये कार्याकाङ्क्षा कारणम् । तर्ह्यरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीति द्रव्यगुणयोविभक्तया सो प्रतियुक्तत्वात् प्रथमं क्रयसम्बन्ध एव तयोर्गम्यते । यश्च पाश्चात्यः परस्परावयस्तत्र कार्य पारतन्त्र्यापादिका विभक्तिरकारणम्, असत्यामपि तस्यां शुक्लः पट इति सामानाधिकरण्यप्रयोगेणान्वयसिद्धेः । तस्मात् कार्येक्यनिबन्धनोऽन्वय इति नियमो य उच्यते स कल्पनामात्रप्रभवो न प्रामाण व्यवस्थागम्य इति ।
15
10
[ चतुर्थम्
20
25
यत्त भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इत्ययमपि न सार्वत्रिको नियम विपर्ययस्यापि व्रीहीन प्रोक्षतीत्यादौ दर्शनाद् । अलं वा दर्शपूर्णमासप्रकरणनिवेशानुज्झितकार्य मुखप्रेक्षणदंन्येन ब्रीहिप्रोक्षणोदाहरणेन ।
प्रतिपत्तिकर्तव्यतापि कुत इति । प्रतिपत्ति कुवित्युपदिश्यते सा चेच्छदाद्भवति तदा कर्तुं शक्या ।
पदार्थान्तराणाम् । शुक्लैब्रहिभिर्यजेतेत्यादिषु द्रव्यगुणादीनां वाक्यीयः परस्परसम्बन्धः साकांङ्क्षाणां सन्निधानकृतः ।
विभक्त्या तृतीयया । कार्यपारतन्त्र्यापादिका विभक्तिरिति तृतीयया हि द्रव्यगुणयोः क्रयकार्यं प्रति पारतन्त्र्यं प्रतिपादितम्, अतस्तत्रैवोपक्षीणासौ ।
श्रीहीन् प्रोक्षतीति । प्रोक्षणस्य भव्यस्यापि ब्रीह्यर्थत्वात् । ननु दर्शपूर्णमासप्रकरणादपरित्यक्तपारार्ध्यानामेव व्रीहीणामसौ संस्कार इत्याशङ्क्याह अलं वेति ।