________________
आह्निकम् ]
प्रमाणप्रकरणम्
४२५
आत्मा ज्ञातव्य इति तु सिद्धपर एव साध्योपदेशः । नात्र कर्म किञ्चित् साध्यं प्रधानमुपदिश्यतेऽधिकाराश्रवणात् । न च विश्वजिदादिवदधिकारकल्पना काचिदुपदिश्यते। न च कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्येति वक्ष्यामः। अर्थवादस्त्वर्थवाद एव नाधिकारिकल्पनाय प्रभवति । तस्मादपहतपाप्मादिगुणयुक्तात्मस्वरूपनिष्ठत्वमेवतत्रावतिष्ठते, तस्मिन्नवगते पुरुषान्तरप्रार्थनादैन्यानुपपत्तेः। स एव हत्तमः पुरु- 5 षार्थः, स च सिद्ध एव न साध्यः, यत्नस्तु कृतबुद्धीनामविद्योपरमायैवेति व्याचक्षते।
ज्ञातव्य इति प्रतिपत्तिकर्त्तव्यतापरोऽयं विधिरिति चेन्न । प्रतिपत्तेः प्रमिति
कर्म किञ्चित्साध्यं प्रधानमिति । दर्शपूर्णमासप्रधानकर्मोपदेशात् तादयं व्रीह्यादीनां नैवमत्र ज्ञानमेव प्रधानं कर्म भविष्यति । तत्र साध्यगुणत्वेनैवात्मनो 10 द्रव्यस्य सम्बन्ध इति चेन्न। साधिकारं हि प्रधानं कर्म भवति, न चात्राधिकारः श्रूयते। न चाधिकारकल्पना भवति; सा ह्यनुष्ठानाय क्रियते, अनुष्ठानञ्च वक्ष्यमाणनीत्यापि सम्भवतीत्यभिप्रायः। ननु कर्मप्रवृत्तिसिद्धयर्थं नित्यत्वेनात्मनो ज्ञानोपदेशात् पारार्थ्यमेव, तन्नेत्याह न च कर्मप्रवृत्तीति 'अथात्मा ज्ञातव्यो निदिध्यासितव्यः' इत्याद्युपक्रम्य ‘एवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न स पुनरावर्तते' 15 इत्यादेरर्थवादादपुनरावृत्तिकामोऽधिकारी लभ्यते । तन्नेत्याह अर्थवादस्त्विति । आत्मस्वरूपनिष्ठत्वमेवेति । आत्मा ज्ञातव्यः, अपहतपाप्मत्वादिगुणवत आत्मनः साक्षात्कारो यथा भवति तथा कुर्यात्, न पुनस्तज्ज्ञानेनान्यदिति । तस्मादपहतपाप्मादीति । "एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" इत्यादिग्रहणेन श्रुतिपरिग्रहः। यदि न तेनान्यत् साधयेत् तर्हि 20 तत्स्वरूपमात्रप्रतिपत्तौ निष्फलायां किमर्थं प्रवर्ततेत्याह-तस्मिन्नवगत इति । स एव ह्य त्तमः पुरुषार्थः, तथाविधावस्थाया एव कैवल्यशब्दवाच्यत्वात् । यदि तादृगसौ तहि स्थित एव तेन रूपेणेति किमर्थं तदुपासनादियत्नविशेष इत्याह यत्नस्त्विति।
प्रतिपत्तिकर्तव्यतापरोऽयमिति। अयमर्थः। 'आत्मा ज्ञातव्यः' इति नायं विधिरपहतपाप्मत्वादिविशिष्टात्मस्वरूपप्रतिपादनपरः, किन्त्वेवंविधात्मप्रतिपत्तिरत्र 25 कर्तव्यतयोपदिश्यते, अतः प्रतिपत्तिविषयो यो नियोगस्तत्रैवास्य तात्पर्यम्, उभयपरत्वे