________________
४२६ न्यायमञ्जयां
[चतुर्थम् त्वात् प्रमितेश्च प्रमेयनिष्ठत्वाज्ज्ञातव्य इति कर्मणि चायं कृत्यप्रत्ययनिर्देशात् कर्मणचेप्सिततमत्वात् तत्परत्वमेवागम्यते। विधिस्त्वत्र प्रसरन् क्व प्रसरेत् ? 'फलं तावद्विधर्न विषय एव। यथाऽऽह भट्टः 'फलांशे भावनायाश्च प्रत्ययो न विधायकः' इति । उपायस्तु ज्ञानमेव, ज्ञाच ज्ञेयनिष्ठमित्युक्तम् ।
यस्तु यमनियमादिप्रतिपत्तीतिकर्तव्यताप्रकारोपदेशः सोऽपि तथाविधात्मरूपाधिगतये सत्यासत्यस्व माननामरूपत्रपञ्चविलापनद्वारा तत्रोपयुज्यत इति सिद्धतन्त्रमेव साध्यम्।
तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाध्यात्मज्ञानयोगीतिकर्तव्य
वाक्यभेदप्रसङ्गारिति । प्रमितेश्च प्रमेयनिष्ठत्वादिति। प्रमेयसाक्षात्कारं विना प्रति10 पत्तिकर्तव्यताया एवासम्पत्तेरित गर्थः । कर्मणि चायं कृत्यप्रत्ययेति । भावनाकर्मणि
यागेन स्वर्ग शादयेद्य या तथा श्रुतेनात्मानं साक्षात्कुर्यादिति न पुनविधिकर्मणि विधेये सोमेन रष्टठामितिदत् । विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्य इति वा यथा कृत्यप्रत्ययः उपांशुयाजस्तुत्यर्थत्वेन तथेहात्र साक्षात् तस्यैव ज्ञानेन प्रेप्सितत्वात् ।
फलं तावद्विधर्न विषय एव । स्वत एव तत्र प्रवृत्तत्वात्, तथा चाह भाष्यकारः 15 "वेदैवासौ मयैतत्कर्तव्यमुपायन्तु न वेद" इति । फलांशे भावनायाश्चेत्यस्य शेषः
"वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा' इति । ( अत्र टीकाग्रन्थस्य स्पष्टाक्षरत्वम् ज्ञेयम्) फलांश एव न विधायकः करणेतिकर्तव्यतांशयोस्तु विधायक एवेति ।
सत्यासत्यस्वभावेति । तथाहि यथा घटशरावोदञ्चनप्रभृतीनि नानारूपाणि अभिधानाभिधेयानि प्रपञ्चतो भेदव्यवहाररूपतया स्थितानि मृदपेक्षया असत्यानि, 20 तेषामुपसंहारे केवलं मृद्रूपताप्रतिभासात् । सापि द्रव्यरूपतया असत्येव, मृदूपतोपसंहारे
केवलद्रव्यरूपताप्रतिभासात्ः एवं सत्तापेक्षया द्रव्यरूपताप्यसत्येव । इत्येवञ्च सामान्यरूपः सन्मात्रं ब्रह्म इत्यस्तमितज्ञातृज्ञेय (अत्रत्यष्टीका ग्रन्थोनोपलब्धः)।
इत्यत्र पुरुषसंस्कारकत्वेनोपयोगात् । तथा च श्रुतिः "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, ब्रह्मचर्येण तपसाश्रद्धया यज्ञेन दानेनानाशकेन वा" इति। यज्ञेनेति यज्ञस्य विविदिषायामात्मज्ञानेऽङ्गत्वं प्रदर्शयति । तथा 'येन केन च यजेतापि दविहोमेनापहतपा'मैव भवति' इति च । तथा च व्यासः।