________________
आह्निकम् ]
ताविधिः । अन्येऽपि ज्योतिष्टोमादिविधयस्तन्निष्ठा एवेति वेदान्तिनः । साध्यस्य सर्वस्य क्षयित्वेनानुपादेयत्वात्, सिद्धस्य ब्रह्मण एवानाद्यविद्यातीतस्यानपायिनः पुरुषार्थत्वात्, स्तोकस्तोकप्रपश्वविलापनद्वारेणोत्तमाधिकारयोग्यत्वापादनाद्, ब्रह्मप्राप्यौपयिका एव सर्व विधयः । तथा च मनुः
स्वाध्यायेन व्रतैर्होमैस्त्रविद्येनेज्यया सुतैः । महायज्ञैश्व यज्ञैश्व ब्राह्मीयं क्रियते तनुः ॥ तदेवं सिद्ध एवार्थे वेदस्याहुः प्रमाणताम् । सर्वस्तावद्विषयो बहु वक्तव्यः प्रमाणता तु गिराम् I X
प्रमाण प्रकरणम्
४२७
40
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । आरुरुक्षोर्योगं कर्म कारणमिष्यते ॥ इति ॥
स्तोकस्तो प्रपञ्चेत्यादिना तन्निष्ठत्वमेव तत्र प्रदर्शयितुमाह । तत्र प्रपञ्चप्रविलयं केचिदेवमाहुः । तथा च ज्योतिष्टोमेन यजेतेत्यतस्तावच्छरीरव्यतिरिक्तो नित्य आत्मास्तीति प्रतीयते तेन शरीरेण स्वर्गस्याप्तुमशक्यत्वात् । अतो देह् एवात्मेति यः प्रपञ्चस्तस्य प्रविलयः । तथा कलञ्जप्रतिषेधविधिपि रागतो या प्रवृत्तिस्तस्याः प्रविलयः । अन्यास्वपि कामचोदनासु फलार्थं या प्रवृत्तिस्तस्याः प्रविलयनमुत्तमफलार्थ- 15 त्वेन, यानि प्रवृत्त्यन्तराणि तेषामपि प्रविलय इति प्रासङ्गिकफलप्रदर्शनद्वारेण च प्रदर्शित एव प्रपञ्चप्रविलय इति । उत्तमाधिकारयोग्यत्वापादनादिति । यथा यथा हि प्राङ्नीत्या कर्मानुष्ठानद्वारेण परिपक्वकषायता भवति तथा तथा आत्मसाक्षात्कारयोग्यतास्य जायत इति ।
10
स्वाध्यायेन व्रतैरिति । स्वाध्यायेनोपनयनाङ्गभूतेन प्रणवव्याहृतिगायत्र्यादिपाठेन । व्रतैर्वेदग्रहणार्थे रुपनयनोत्तरकालं सावित्रादिभिः । त्रैविद्येन त्रिवेदाध्ययनेन । इज्यया गुरुशुश्रूषया । सुतैर्धर्मप्रजोत्पत्त्या । महायज्ञैः पञ्चभिः स्मार्तभूतयज्ञादिभिः । यज्ञैश्व ज्योतिष्टोमादिभिः श्रीतैः । ब्राह्मीयं क्रियते ब्रह्मप्राप्तियोग्या क्रियते । ब्रह्मप्राप्तिपर्यवसायिनः स्वाध्यायादयः । ब्रह्म चात्मा सिद्धस्वभाव एवेति । ननु ब्रह्मणः सिद्धस्वभावस्य प्रमाणान्तरग्रहणयोग्यत्वात् तत्परत्वे वेदान्तानामनुवादकत्वं प्राप्तम् । 25 तत्स्वरूपस्य च स्वाध्यायाध्ययनादेवावगतेनैष्फल्यमित्याद्याक्याह आस्तां चायं
x श्लोकरूपेण मुद्रितापीयं पंक्तिश्छदोहीनत्वादस्माभिः गद्यत्वेनात्रमुद्रितेति मन्तव्यम् ।
20