Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 475
________________ ४२४ न्यायमञ्जय प्रतिपत्तौ प्रतिपत्तिकत्तव्यतापि कुतः प्रतीयेत ? ननु कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते, कार्याकाङ्क्षानिबन्धत्वात् सम्बन्धस्य, तेन सर्वत्र कार्यपरत्वमुच्यते ? नैष नियमः कार्या - काङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति वर्त्तमानापदेशकानामपि प्रेक्षापूर्व कारिवाक्या5 नामितरेतरसंसृष्टार्थ प्रतीतिजनकत्वदर्शनात् । न हि दशदाडिमादिवाक्यसदृ शि वर्त्तमानापदेशीनि वचांसि भवन्ति । कार्यनिबन्धने हि सम्बन्धे तद्रहितानामनन्वय एव स्यात् । दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम् । अपि च लिङन्त पदयुक्तेऽपि वाक्ये पदार्थान्तरानां परस्परमन्वयो दृश्यत एव । स कथं समर्थयिष्यते ? कार्याकाङ्क्षाबन्धने हि, कार्ये सर्वेषामन्वयो न परस्परमिति । अथ बूयात् सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुण कहायनीन्यायेन वाक्यीयः परस्परान्वयोऽपि सेत्स्यतीति ? हन्तं ! तर्हि परस्परान्वये कार्याकाङ्क्षा कारणम् । तर्ह्यरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीति द्रव्यगुणयोविभक्तया सो प्रतियुक्तत्वात् प्रथमं क्रयसम्बन्ध एव तयोर्गम्यते । यश्च पाश्चात्यः परस्परावयस्तत्र कार्य पारतन्त्र्यापादिका विभक्तिरकारणम्, असत्यामपि तस्यां शुक्लः पट इति सामानाधिकरण्यप्रयोगेणान्वयसिद्धेः । तस्मात् कार्येक्यनिबन्धनोऽन्वय इति नियमो य उच्यते स कल्पनामात्रप्रभवो न प्रामाण व्यवस्थागम्य इति । 15 10 [ चतुर्थम् 20 25 यत्त भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इत्ययमपि न सार्वत्रिको नियम विपर्ययस्यापि व्रीहीन प्रोक्षतीत्यादौ दर्शनाद् । अलं वा दर्शपूर्णमासप्रकरणनिवेशानुज्झितकार्य मुखप्रेक्षणदंन्येन ब्रीहिप्रोक्षणोदाहरणेन । प्रतिपत्तिकर्तव्यतापि कुत इति । प्रतिपत्ति कुवित्युपदिश्यते सा चेच्छदाद्भवति तदा कर्तुं शक्या । पदार्थान्तराणाम् । शुक्लैब्रहिभिर्यजेतेत्यादिषु द्रव्यगुणादीनां वाक्यीयः परस्परसम्बन्धः साकांङ्क्षाणां सन्निधानकृतः । विभक्त्या तृतीयया । कार्यपारतन्त्र्यापादिका विभक्तिरिति तृतीयया हि द्रव्यगुणयोः क्रयकार्यं प्रति पारतन्त्र्यं प्रतिपादितम्, अतस्तत्रैवोपक्षीणासौ । श्रीहीन् प्रोक्षतीति । प्रोक्षणस्य भव्यस्यापि ब्रीह्यर्थत्वात् । ननु दर्शपूर्णमासप्रकरणादपरित्यक्तपारार्ध्यानामेव व्रीहीणामसौ संस्कार इत्याशङ्क्याह अलं वेति ।

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544