Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 474
________________ आह्निकम् ] प्रवृत्त्यनुपपत्तेः । किन्तु पुत्रजन्मश्रवणत एवासौ सुखीभवति । तथा कस्यचिदुत्तरीयावगुण्ठिततनोनिद्रायमाणस्य क्वचित् केनचित् केलिना रज्जुवेष्ठितवपुषः पश्चात् प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित् प्रयुज्यमानं रज्ज्वा वेष्टितोऽसीति वचः श्रवणपथमवतरति तत् सिद्धार्थबोधकमपि प्रमाणम् । न च तत्र मा भैषीरिति प्रयोगकल्पनाप्रयोजनम् । रज्जुवेष्टनप्रत्यया- 5 देव भयनिवृत्तेः सिद्धत्वात् । तथा च विषमविषधराधिष्ठितोऽयमध्वा निधियुक्तोऽयं भूभाग इति भूतार्थख्यापकं वचो दृश्यते न च तदप्रमाणम् । न च तत्र मा गास्त्वमनेनाध्वना, निधि गृहाणेति विधिनिषेधपरत्वं युक्तम्, एषां पदानामश्रवणात् 1 ४२३ प्रमाण प्रकरणम् ननु वक्तुः प्रेक्षापूर्व कारितया निष्प्रयोजनवचनानुच्चारादवश्यं मा गा गृहाति कार्याक्षराणि हृदये परिस्फुरन्ति कथविदालस्यादिना नोच्चारितानीति, 10 नैतद्युक्तम् । प्रेक्षापूर्व कारित्वादेव वक्तुः यथावस्थित वस्तुस्वरूपमात्रख्यापकवचनोच्चारणमेव युक्तम्, अर्थात् प्रवृत्तिनिवृत्त्योः सिद्धत्वात्, पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः, सर्पबन्धजीविनो हि सपन्नगः पन्था उपादेयतयावभाति, वीतरागस्य च ब्रह्मविदो वित्तैषणाव्युत्थितस्य गोविन्दस्वामिन इव निधिरपि यतया परिस्फुरतीति कस्मै किमुपदिश्यताम् । वस्तुस्वरूपे तु कथिते यथाहृदय - 15 वत्तिरागद्वेषानुवर्तनेन कश्चित् तत्र प्रवर्ततां कश्चित् ततो निवर्त्ततामिति भूतार्थकथनमेव लोके प्रेक्षावान् करोति, न विधिनिषेधौ प्रयोक्तुमर्हतीति । उपायः । येsपि ब्रुवते सर्वत्र प्रतिपत्तिकर्तव्यताविधानमेवादौ वेदितव्यम्, अविधिकस्य वाक्यस्य प्रयोगानर्हत्वादिति तेऽपि न साधु बुध्यन्ते । विदितशब्दार्थसम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तयेः स्वतः सिद्धत्वेनानुपदेश्यत्वात् । असिद्धायां वा 20 و वित्तंषणाभ्युत्थितस्य धनाभिलाषनिरपेक्षेण वर्तमानस्य । गोविन्दस्वामिन इव इति । भगवान् गोविन्दस्वामी हि धनाहरणाय पुरा किं किं न व्यधत्त तथापि कृतयत्नातिशयो न कामपि यदा धनमात्रामाससाद तदा कालेन महद्वैराग्यमस्य प्रादुरभूत्, तथाविरक्तच काविन्निविपलभ्य तदुपरि मूत्रपुरीषोत्सर्गमकरोदिति श्रूयते । 25

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544