Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 463
________________ ४१२ न्यायमञ्जऱ्यां [ चतुर्थम शास्त्रान्तरे विस्तरतो निर्णीतम् इह तु वितन्यमानमस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते । यत्तु तदर्थविनियोगोपदेशादित्यविवक्षितार्थत्वमुक्तं तत्र 'उरु प्रथा उरु प्रथस्वे'ति लिङ्गादेव मन्त्रस्य प्रथनविनियोगसिद्धेः कामं तद्विधायकं वचनमनर्थक भवतु प्राप्तानुवादकत्वाद्, न तु प्रतीयमानो मन्त्रादर्थस्त्यक्तुं युक्तः। तत् किं वचनमनर्थकमेव ? नानर्थकम्, प्रतिपन्नार्थविषयन्तु तत् । अर्थवादार्थं वा तद्वचनम् । यज्ञपतिमेव तत्प्रथयतीति तद् यज्ञपति यजमानमेव प्रजया पशुभिः प्रथयतीति । क्वचित्तु गुणार्थविधानं यथा 'तां चतुभिरादत्ते' इति, एवम् 'अग्नीदग्नीन्विहरे'दि त्यादावपि द्रष्टव्यम्। यत्तु नियतपदक्रमत्वादुच्चारणमात्रोपयोगिनो मन्त्रा इति तदप्यसाधु । मीमांसकानामनादित्वाद् वेदस्य तत्क्रमलङ्घनानुपपत्तेः । यथोक्तम् 'अन्यथा करणे चास्य बहुभ्यः स्यानिवारणम्' इति । अस्माकमपि यादृगीश्वरप्रणीतो वेदस्तदन्यथाकरणे किमध्येतृणां स्वातन्त्र्यमस्ति ? तस्मानार्थविवक्षाय मन्त्रक्रमः प्रभवति ब्राह्मणवाक्यक्रमवत्। यदपि ' चत्वारि शृङ्गे'त्यविद्यमानार्थवचनमाशङ्कितम्, तदप्यनभिज्ञतया। य तद्विधायकम उरुप्रथा इति पुरोडाशं प्रथयतीति । प्रतिपन्नार्थविषयन्तु तदित्यनेन निरालम्बनत्वकृतमनर्थकत्वं परिहरति, अर्थवादार्थम् वेत्यनेन त्वनुवादमात्रत्वम् । क्वचित्तु गुणार्थविधानमिति । सन्त्यादानसमर्था मन्त्रा ‘देवस्य त्वा' इत्यादयः, तान् पठित्वाह 'तां चतुभिरादत्ते' इति । तामित्यभिं; वेद्यर्थ मृत् खन्यते यया सा 20 अभ्रिः । तत्र तदादानप्रकाशनसामर्थ्यादेव मन्त्रेण तदादाने लब्ध पुनस्तां चतुर्भिरादत्त इति वचनं निष्फलमाशङ्क्य सनुच्चितैश्चतुभिरादानं कार्य नैकैकेनेति समुच्चयलक्षणगुणस्य विशेषस्य विधानार्थम् । यद्यपि समुच्चयो न वाच्यस्तथाप्यसमुच्चितैरेकैकश आदानं क्रियमाणं कथं चतुर्भिरादानं कृतं स्यादिति फलतः समुच्चयलाभः। एवमग्नीदग्नीन् विहरेति। अत्र यद्यपि तस्य ज्ञानं स्थितं मयैतत्कर्तव्यमिति तथापि प्रयोगकालेऽवश्यं 25 स्मर्तव्यं तत्, उपायान्तरेण स्मरणप्रतिषेधार्थ मन्त्रेण स्मृतं कर्तव्यमिति मन्त्रस्योपयोगः । अन्यथा करणे चास्येति । बहुभ्योऽध्येतृभ्यो निवारणम्, एवं मा पठीरिति ।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544