Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 471
________________ ४२० न्यायमञ्जयां [ चतुर्थम् शब्दो भवति । ततश्च तद्ग्राहिणः प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यान्न शब्दस्य । शब्दश्च तदुपस्थापनमात्रनिष्ठ एव स्यात्। तस्माच्छब्दप्रामाण्य मिच्छता कार्य एवार्थे तत्प्रामाण्यमङ्गीकर्तव्यमिति । अकार्यऽपि अर्थे वेदाः प्रमाणम् । अत्रोच्यते। यद् ब्रूषे कार्य एवार्थे वाक्यस्य व्युत्पत्तिरिति तदयुक्तम् । एवं हि सिद्धरूपोऽयं तस्यार्थ इति कथं त्वयोच्यते ? न ह्यलब्धव्युत्पत्तेः शब्दादर्थप्रत्ययो युज्यते । अर्थप्रतीतिश्च ततो दृश्यते व्युत्पत्तिश्च तत्र नास्तीति चित्रम् । न च कार्यपरैरेव शब्दोके व्यवहारो वर्तमानापदेशकेभ्योऽपि व्यवहारप्रवृत्तेस्तत्रापि व्युत्प त्तिर्भवत्येव । अपि चागुल्यादिना पुरोऽवस्थितमर्थ निर्दिश्य यदा कश्चित् कथयत्य10 स्येदं नामेति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः 'अस्माच्छब्दादयमर्थः प्रतिपत्तव्यः इति । कार्योपदेश एवासौ इति चेत् ? तादृशानामक्षराणामश्रवणात् । अस्येदं नामेति हि श्रूयते नास्मादयं प्रतिपत्तव्य इति। अस्येदं नामेत्येषामेवाक्षराणामेषोऽर्थ इति चेद ? न। अपदार्थस्य वाक्यार्थत्वायोगात । न चैवंकल्पयितुमपि शक्यते, अस्येदं नामेत्येतावतैव च तत्प्रतिपत्तिसिद्धः प्रतिपत्तिकर्त्तव्यताविधानस्य निष्प्रयो15 जनत्वात् । कार्यपरादपि शब्दाद् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी भवति किन्त्वेकैकपदादावापोद्वापद्वारकपदार्थपर्यन्ता सा भवति । पदार्थव्युत्पत्तिसंस्कृतमतेश्च अभिनवकविविरचितवर्तमानापदेशश्लोकश्रवणेऽपि वाक्यार्थप्रतीतिदृश्यत एवेति नाव्युत्पत्तिकृतमप्रामाण्यम् । न चासौ भूतार्थप्रतिपादकशब्दजनिता प्रतीतिर्बाध्यते सन्दिग्धा वा। तेन प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत् प्रमाण20 फलमेव सा भवितुमर्हति । यत्पुनरभ्यधायि कार्येऽर्थे प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः, न सिद्धेऽर्थे,प्रमाणान्तरसापेक्षत्वादिति, तदसत् । प्रवर्त्तयितुमेव न शक्नोति इत्यवो 20 प्रतिपत्तिकर्तव्यताविधानस्य निष्फलत्वादिति । यथा भुजौ प्रवृत्तस्तृति प्रति न नियुज्यते स्वत एव भावादेवं शब्दश्रवणादेव प्रतिपत्तेः सिद्धत्वात् 'प्रतिपत्ति कुरु' 25 इति प्रतिपत्तिकर्तव्यताविधानं निष्फलम् ।

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544