________________
३८४ न्यायमञ्जयां
[चतुर्थम् तथा च शान्तचित्तानां सर्वभूतदयावताम् ।
वैदिकोष्वपि हिंसासु विचिकित्सा प्रवर्तते ॥ अभिचारादिहिंसायां वैदिक्यामपि भवतु कामं हृदयोत्कम्पः, करणांशोपनिपातिनी हि हिंसेति लिप्सातस्तस्यां प्रवृत्तिः।
यत्त्वग्नीषोमीयादिपशुहिंसा इतिकर्त्तव्यतांशस्था, यस्यां क्रत्वर्थो हि शास्त्रादवगम्यते इति वंदी प्रवृत्तिस्तस्यामपि कारुणिको लोकः सविचिकित्सो भवति वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः" इति । न चैतावता वेदस्याप्रामाण्यम्, एवमागमान्तरेष्वपि भविष्यति।
यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरण10 कृतः (प्रत्यवायः ) कालान्तरेऽवश्यं भावीत्युक्तम्, तदपि न युक्तम् तस्यार्थस्य तदा
गमनिषिद्धत्वाभावात्. आगमान्तरनिषिद्धत्वेऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरुषार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन् सिद्धे कुतः प्रत्यवायः? भवतु वा कालान्तरे ततः प्रत्यवायस्तथाप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव नागमप्रामाण्यमत्र हीयते । 'श्येनेनाभिचरन् यजेते' त्यत्राभिचरन्निति शत्रा लक्षितनिषेधमधिकारिणमाचष्टे । तस्य च श्येनयागश्वोदितः। स च तत्प्रयोगात् कृतवधः प्रत्यवत्येव। न च वेदस्याप्रामाण्यम् । उक्तञ्च 'उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्चेति।
15
भवतु कामं हृदयोत्कम्पः, तस्यां हिंसायां विधेरव्यापारात् । कथमव्यापारश्चेत् तदाह करणांशोपनिपातिनी हीति । 'श्येनेनाभिचरन् यजेत' इत्यत्र हि श्येनयागा
भिचारयोरुपायोपेयतापरिज्ञानमात्रेऽधिकारे विधेयापारः प्रवृत्तौ तु तत्र विविरुदास्ते 20 लिप्सातस्तत्र प्रवृत्तिसिद्धेः। तदुक्तम् 'यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणा'
इति । क्रत्यर्थः पुनः क्रतूपकारको योऽग्नीषोमीयपश्वालम्भादिस्तस्य फलं प्रति करणत्वस्य साक्षादनवगमात् तत्र लिप्सातः प्रवृत्तेरभावः, प्रवृत्तौ चासत्यां सेतिकर्तव्यताकस्य क्रतोरनिर्वाहात् । तत्र शास्त्रविधिरेव प्रवर्तकः। तदुक्तं भाष्यकृता "क्रत्वों हि शास्त्रादवगम्यते” इति । अतोऽसावभिचारोऽवैधः शास्त्राविहित इति । तथाप्यधिकारिभेदेनेति । यस्तज्जन्यफलकामस्तदपेक्षया । शत्रा लङ्क्तिनिषेधमिति । अभिचरन्निति हि शतृप्रत्ययो लक्षणे। लक्षणञ्च पूर्वसिद्धं भवति । 'शयाना भुञ्जते यवनाः' इति