________________
आह्निकम् ]
प्रमाणप्रकरणम्
३८३
नानाविधैरागममार्गभेदरादिश्यमाना बहवोऽभ्युपायाः।
एकत्र ते श्रेयसि संपतन्ति सिन्धौ प्रवाहा इव जाह्नवीयाः॥ तथा ह्यपवर्ग उपेयः सर्वशास्त्रेषु निर्दिश्यते ज्ञानविषये तु विवदन्ते । तत्रापि प्रायश आत्मविषयतायां बहूनामविप्रतिपत्तिः। प्रकृतिपुरुषविवेकज्ञानपक्षे तु प्रकृतेविविक्ततया पुरुष एव ज्ञेयः । नैरात्म्यवादिनस्तु आत्मशैथिल्यजननायापदि- 5 शन्ति । स्वच्छन्तु ज्ञानतत्त्वं यत्तरिष्यते तत् स्वातन्त्र्यादनाश्रितत्वादात्मकल्पमेव, कूटस्थनित्यत्वे प्रवाहनित्यत्वे च विशेषः। एवं प्रधानयोस्तावदुपायोपेययोरविवादः । क्रिया तु विचित्रा । प्रत्यागमं भवतु नाम भस्मजटापरिग्रहो वा, दण्डकमण्डलुग्रहणं वा, रक्तपटधारणं वा, दिगम्बरता वावलम्ब्यतां कोऽत्र विरोधः? वेदेऽपि किमल्पीयांसः पृथगितिकर्तव्यताकलापखचिताः स्वर्गापायाश्चोदिताः ? तस्मात् परस्पर- 10 विरोधेऽपि न प्रामाण्यविरोधः । अतश्च यदुच्यते
कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा।
अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम् ॥ इति तदपास्तं भवति, प्रधाने सति भेदाभावात, क्वचिद वा तदभावेऽपि प्रामाण्याविरोधात् । न च हृदयकोशनहेतुकर्मोपदेशादागमान्तराणामप्रामाण्यम, 1 तस्याप्रमाणतायामप्रयोजकत्वात ।
विचिकित्सा हि नशिरःकपालाद्यशनेषु या। साप्यन्यदर्शनाभ्यासभावनोपनिबन्धना ॥
एकत्र ते श्रेयसीति । निःश्रेयसे, सर्वेषां तदर्थत्वात् ।
कूटस्थनित्यत्वेति। आत्मा कूटस्थोऽविचलद्रूपः सन् नित्यः, ज्ञानसन्तानस्तु 20 अविच्छेदेन प्रवहत् प्रवाह इति । |
क्वचिद्वा तद्भावेऽपीति । यथा नित्यानन्दस्यात्मनोऽवस्थानं मोक्ष इति केचित्, अन्ये चितिमात्रस्य परिशुद्धस्य चित्तसन्तानस्य, इतरे विशेषगुणवियुक्तस्यात्मन इत्युपेये भेदः । न च हृदयक्रोशनेति । हृदयक्रोशनं विचिकित्सा।
अन्यदर्शनाभ्यासेति । पुनः पुनर्यदभ्यस्तं 'नारं स्पृष्टवास्थि सस्नेहम्' 25 इत्यादिदर्शनं तत्संस्कारवासितान्तःकरणानाम् ।