________________
३८२
न्यायमञ्जयां
[ चतुर्थम् भिदधति । वेदे यथा तथा प्रवेष्टमीहन्ते । वैदिकान् अर्थान् अन्तरान्तरा स्वागमेषु निबध्नन्ति। वेदस्पर्शपूतमिवात्मानं मन्यन्ते । तेषामप्यन्तर्हृदये ज्वलतीव प्रामाण्यम् । अत एवंविधाया महाजनप्रसिद्धेरागमान्तरेष्वदर्शनान्न तेषामाप्तप्रणीतत्वम् । आह
महाजनप्रसिद्ध्यैव वेदप्रामाण्यनिश्चयात् ।
किमर्थः कण्ठशोषोऽयमियानार्येण संश्रितः ॥ वेदप्रामाण्यसिद्धयर्थं हि इदं शास्त्रमारब्धमिति गीयते । वेदप्रामाण्यस्य च महाजनसिद्धव सिद्धत्वात् किं शास्त्रेण ? अलं क्षुद्रचोथैरीदृशैः ।
महाजनप्रसिद्धं हि केचिद् विप्लावयन्त्यपि ।
अतस्तदुपघाताय शास्त्रमस्त्रं प्रयुज्यते ॥ तस्मात् पूर्वोक्तानामेव प्रामाण्यमागमानां न वेदबाह्यानामिति स्थितम् । केषाश्चिन्मते सामान्यत आगमानां प्रामाण्यम्
अन्ये सर्वागमानान्तु प्रामाण्यं प्रतिपेदिरे । सर्वत्र बाधसन्देहरहितप्रत्ययोदयात् ॥ सर्वत्र वेदवत् कर्तुराप्तस्य परिकल्पना।
दृष्टार्थेष्वेकदेशेषु प्रायः संवाददर्शनात् ॥ यत् पुनरत्रोक्तं सर्व एवागमाः परस्परविरुद्धार्थोपदेशित्वादप्रमाणं स्युरिति, तत्रोच्यते, आप्तप्रणीतत्वेन तुल्यकक्ष्यत्वादन्यतमदौर्बल्यनिमित्तानुपलम्भाच्च न कश्चिदागमः कञ्चिद् बाधते। विरोधमात्रन्त्वकिञ्चित्करम, प्रमाणत्वाभिमतेषु वेदवाक्येष्वपि परस्परविरोधदर्शनात् । पुरुषशीर्षस्पर्शनसुराग्रहगवालम्भादिचोदनासु वचनान्तरविरुद्धमर्थजातमुपदिष्टमेव । किञ्चागमानां विरोधोऽपि नातीव विद्यते, प्रमाणानां पुरुषार्थे सर्वेषामविवादात् ।
20
वैदिकान् अर्थान् अन्तरान्तरेति । वैदिकान् भूतदयादीन् । केचिद् विप्लावयन्त्यपि । यथा प्रतिपादितं 'कोऽयं महाजनो नाम' इत्यादि ।
पुरुषशीर्षेति । 'पुरुषशीर्षमुपदधाति', 'सुराग्रहं गृह्णाति', गामालभत' इत्यादिषु । वचनान्तरविरुद्धम् । “नारं स्पृष्ट्वास्थि सस्नेहम्" इत्यादिविरुद्धम् ।