SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाण प्रकरणम् तस्य कीदृशम्, पाणिपादं कीदृशम्, शिरोग्रीवं वा, कियती तस्य संख्येति पुरुषलक्षणानि गणयितुं न जानीमः । चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनो वेदप्रथमप्रवृत्त आगमान्तरवादिभिरप्रत्याख्येय एव । तथा चैते बौद्धादयोऽपि दुरात्मानो वेदप्रामाण्यनियमिता एव चण्डालादिस्पर्श परिहरन्ति । निरस्ते हि जातिवादावलेपे arra चाण्डालादिस्पर्शे दोष: ? येऽप्यन्ये केचिदशुचिभक्षणागम्यागमनादि - 5 निर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति तेऽपि चातुर्वर्ण्यादिमहाजन भीतास्तं तं रहसि कुर्वन्ति न प्रकाशम् । निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौर्यवत् तदर्थानुष्ठानम् ? अत एव न निजो महाजन उत्थापयितुं शक्यते वृन्दकादिः, किन्त्वयमेव चातुवर्ण्यादिमहाजनः । स चंष महाजनो वेदविरुद्धमागमं परिहरत्येव नानुमोदते । संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः । बौद्धरपि सहैतेषां व्यवहारो न कश्चन ॥ वेदधर्मानुवर्त्ती च प्रायेण सकलो जनः । वेदास्तु यः कश्चिदागमो वश्वनैव सा ॥ निरस्ते हि जातिवादावलेप इति । ब्राह्मणोऽस्मीति यो जातिवादस्तत्कृतोऽलेपो दर्पो जातिवादावलेपः । यदाह ईदृशश्चायमनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिर्यदन्ये 15. बाह्यागमवादिन एनमेव स्पर्धन्ते । ते हि स्वागमप्रामाण्यमभिवदन्तो वेदरीत्या वेदप्रामाण्यं जातिवादावलेप तीर्थे स्नानेच्छा कस्यचित् कर्तृवादः । संतापारम्भः पापहानाय चेति ध्वस्त प्रज्ञानां पञ्चलिङ्गानि जाये || इति || ३८१ astra केचिदिति । नाथवाद्यादयः । यथाहु: माता च भगिनी चैव तथान्या या स्वगोत्रजा । म्यारागनाथ एवं किलाब्रवीत् ॥ इत्यादि ॥ 10 20 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy