________________
३८०
न्यायमञ्जयां
[ चतुर्थम्
बुद्ध शास्त्रे हि विस्पष्टा दृश्यते वेदबाह्यता। जातिधर्मोचिताचारपरिहारावधारणात् । संसारमोचकाः पापाः प्राणिहिंसापरायणाः । मोहप्रवृत्ता एवेति न प्रमाणं तदागमः ॥ निषिद्धसेवनप्रायं यत्र कर्मोपदिश्यते । प्रामाण्यकथने तस्य कस्य जिह्वा प्रवर्तते ॥ ततो यद्यपि सिद्धिः स्यात् कदाचित् कस्यचित् क्वचित् । ब्रह्महत्याजितग्राम्यभोगवन्नरकाय सा॥ निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति ।
अतः कालान्तरेणापि नरके पतनं पुनः॥ यत्त्वत्र चोदितं परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिविधेयमिति ? तत्रोच्यते । महाजनप्रसियनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति नान्यथा । महाजनश्च वेदानां वेदार्थानुगामिनाञ्च पुराणधर्मशास्त्राणां वेदाविरोधिनाञ्च केषाञ्चिदागमानां प्रामाण्यमनुमन्यते न वेदविरुद्धानां बौद्धाद्यागमानाम्, इति कुतस्तेषामाप्तप्रणीतत्वम् ? मूलान्तरं हि तत्र सुवचम्, अज्ञानलोभादीत्येवमभिधाय वेदस्पधिनो बौद्धादयो निषेद्ध व्याः । आह
कोऽयं महाजनो नाम किमाकारः किमास्पदः ।
किसंख्यः किसमाचार इति व्याख्यातुमर्हसि ।
अपि च बौद्धादयो बुद्धादीनाप्तान स्वागमप्रामाण्य सिद्धये वदन्ति । ते 10 महाजनमपि निजं तत् सिद्धये वृन्दादिकम् वदेयुरेव । कस्तत्र प्रतीकारः ? उच्यते ।
चातुर्वयं चातुराश्रम्यञ्च यदेतदार्यदेशप्रसिद्धं स महाजन उच्यते । आकारस्तु
संसारमोचका इति । ये घूकचटकन्यायेन प्राणिवधं धर्ममिच्छन्ति । निषिद्धसेवनप्रायमिति । यदुक्तम्
विस्रधारा मृतञ्चैव मेदो रुधिरमेव च । पवित्रं भैरवे तन्त्रे साधकानां न संशयः ॥ इति ।। ततो यद्यपि सिद्धिः स्यादाकाशगमनादिका।