________________
प्रमाणप्रकरणम्
आह्निकम् ]
३७९ पञ्चरात्रेऽपि तेनैव प्रामाण्यमुपणितम् ।
अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किञ्चन ॥ तत्र च भगवान विष्णुः प्रणेता कथ्यते । स चेश्वर एव ।
एकस्य कस्यचिदशेषजगत्प्रसूतिहेतोरनादिपुरुषस्य महाविभूतेः। सृष्टिस्थितिप्रलयकार्यविभागयोगाद्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ॥ वेदे च पदे पदे 'एक एव रुद्रोऽवतस्थे न द्वितीयः' इति, 'इदं विष्णुविचक्रमे इति रुद्रो विष्णुश्च पठ्यते । तद्योगाच्च तदाराधनोपाया वेदेऽपि चोदिता एव । शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपदिश्यन्ते । न चैष वेदविरोधो वैकल्पिक- 10 स्वादुपायानाम् । अत आप्तप्रणीतत्वाद् वेदाविरुद्धत्वाच्च न तयोरप्रामाण्यम् । सौगतानामप्यागमानां न प्रामाण्यम्
__ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः कस्तेषु प्रामाण्यमार्योsनुमोदते ?
पञ्चरात्रञ्च साङ्ख्यञ्च वेदाः पाशुपतं तथा।
ज्ञानान्येतानि राजेन्द्र विद्धि नाना मतानि च ॥ इति ॥ ज्ञायतेऽनेनेति व्युत्पत्त्या विद्यापर्यायेण ज्ञानशब्देन वेदसमकक्षतया निर्दिशन् पञ्चरात्रादीस्तेषां वेदवत् प्रामाण्यमभ्यनुजानाति । तथा द्रोणपर्वणि पितृवधामर्षितमश्वत्यामानं स्वयमेव सान्त्वयितुं ‘‘भवता लिङ्गमूर्तिः शिवो नाचिंतो यथा केशवार्जुनाभ्यां प्राग्भवेऽचितः, अतो न पराजेतुं शक्यो भवता । विरम्यतामतोऽसद्ग्रहात्" इति भङ्ग्या शैवशा- 20 स्त्रप्रसिद्धलिङ्गार्चनस्तुति वदता तच्छास्त्रप्रामाण्यमनुमन्यते। दानधर्मेषु च तच्छास्त्रप्रसिद्धां दीक्षामुपमन्युना कृष्णाय प्रतिपादितां दर्शयंस्तदेव शैवशास्त्राणां प्रामाण्यं स्फुटीचकार मो(अत्रटीका ग्रन्थस्त्रुटितः)त्यथर्वशिरसि मूलमन्त्रभूतोऽप्युपलभ्यत एव । बौद्धादीनान्तु त्रैवणिकानादराद् वेदमूलत्वानभ्युपगमाच्च नायं नयः समस्तीति । तदेवं मोमांसकदृष्ट्या नैयायिकमताश्रयणेन व्यासादिवेदविदृष्ट्या च स्मृतिवच्छेवादि- 25 शास्त्रप्रामाण्यमिति सिद्धम्।