________________
३७८
न्यायमञ्जयां
[चतुर्थम्
सर्वोपनिषदामर्था निःश्रेयसपदस्पृशः। विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥ ये च वेदविदामग्रयाः कृष्णद्वैपायनादयः । प्रमाणमनुमन्यन्ते तेऽपि शैवादिदर्शनम् ॥
5 भावात् कारणाभावोऽपि सम्भवतीति सम्भवमात्रेणानुभवविरुद्धकारणाभावः शक्यते
वक्तुं, यथोक्तम् 'दोषज्ञाने त्वनुत्पन्ने' इति । अन्येनाप्युक्तम् 'बाधके सति स न्यायः, नानुभूतं त्यक्तव्यम्' । लिङ्गे पुननियमनिश्चयापेक्षावगतिरिति नायं नयः समस्ति । अत एव प्राङ्नयेन वेदमूलत्वनिश्चयाभावाद् भाष्यकृता “सम्भवाद् वेदसंयोगस्य" इत्ययुक्तम्, अन्यथा निश्चयो वक्तव्यः, न सम्भवमात्रम् । अत एव न वाच्यं 'वेदसंयोग एव वेदमूलत्वे प्रमाणं भविष्यति' इति, अनिश्चये प्रमाणत्वासिद्धेः । अत्र शास्त्रे स्मृत्यधिकरणे प्रभाकरटीका सर्वत्रोपयुज्यते ग्रन्थगौरवभयात् तु न प्रदर्शिता। तदेवं यथा स्मृत्यादिवाक्ये योऽ. वगतरुत्पद्यमानाया मूलकारणाभावेन परॅमिथ्यारूपता शङ्किता सा त्रैवर्णिकानां वेदसम्बन्धस्य सम्भवमात्रेण कारणाभावनिश्चयनिराकरणेन निरस्ता। भवन्ति हि मन्वाद
यस्त्रैवणिकत्वाद् वेदेऽधिकृताः, अरित तेषां वेदेन सम्बन्धः तत् कदाचिद् वेद एव 15 मूलकारणं सम्भवतीति, एवं चेत् कथमेकान्तेन कारणाभावनिश्चय इति, नथा शैवादि
शास्त्रेभ्योऽप्यवगतेरुत्पद्यमानाया अयमेव न्यायः, तत्कतृणामपि वेदसंयोगः केनापहनूयते। . अतस्तत्रापि मूलकारणाभावनिश्चयः र.म्भवमात्रेण निरसनीय एव । तथा च पञ्रात्रादौ भगवत्सङ्कर्षणादयस्त्रैवर्णिका अविच्छेदेन कर्तारः स्मर्यन्त एव । न च विद्वज्जनानाद
रस्तेषाम् विद्वद्भिः परिव्राजकवरैरपि तदाहरणात् तुर्येच ज्ञानकाण्डे भगवद् बादरायण. 2.) सूत्रवृत्तिकृता भगवत्पुष्कराक्षेण परिव्राजक मुख्येन पञ्चरात्रादेर्वेदमूलत्वमङ्गीकृतम् ।
तत्सूत्रकृतोऽपि 'विज्ञानादिभावे वा तदप्रतिषेधः' इति वदतस्तत्रामाण्यमभिप्रेतमिति लक्ष्यते। अस्य सूत्रस्यार्थमाहुः "ज्ञानानुत्पत्तिकृतं संदेहनिबन्धनं विपर्ययहेतुकं वा अप्रमाणं भवति । तदेतत् त्रिविधमपि पञ्चरात्रादिषु नारित 'विज्ञानादिभावे' विज्ञानं तावत् तेभ्य उत्पद्यत इति विज्ञानानुसत्तिलक्षणाप्रामाण्यनिरासः। आदिग्रहणाद्धि संशयविपर्यययोः पर्युदासः। वाशब्दः पक्षान्तरनिवृत्त्यर्थः । अतस्तदप्रतिषेधः प्रामाण्याप्रतिषेध इत्यर्थ इत्यलं बहूक्तया।"
येऽपि वेदविदामनया इति । तथा हि भारते