________________
आह्निकम् ]
प्रमाणप्रकरणम् मूलान्तरकल्पनावकाशः ? न च वेदप्रतिपक्षतया तेषामवस्थानम्, वेदप्रसिद्धचातुवादिव्यवहारापरित्यागात् ।
मन्वादिचोदनान्यायः स यद्यपि न विद्यते। शैवागमे तथाप्यस्य ननु युक्ता प्रमाणता ॥
पुनर्दहनादेव धूम इति; एवं यत्र स्मरणं वेदमूलत्वं विनोपलब्धं सर्ववेष्टनादौ तत्र वेदमू- 5 लत्वं व्यभिचरतु नाम, अन्यत्र तु वेदमूलत्वाव्यभिचारि स्मरण मिति । यतो नियमस्याविनाभावस्य निश्चयोऽनुमानस्य मूलम् । तस्य चासिद्धिविपर्ययसम्भावनायामपि, किं पुनर्विपर्ययदर्शनेऽपि । विपर्ययश्च दर्शितः। यत् पुनः “दोषज्ञाने त्वनुत्पन्ने” इति तत् प्रत्यक्षाभिप्रायेण, यतो न प्रत्यक्ष लिङ्गवनियमनिश्चयापेक्षं स्वविषयं परिच्छिनत्ति। किं तहि ? बोधस्वभावत्वादेव । अतस्तत्र सत्यामप्याशङ्कायां न नियमासिद्धिः । निश्चित- 10 नियमस्य गृहीताविनाभावस्य तु लिङ्गस्य लिङ्गत्वात् कथं विपर्ययदर्शनेऽपि लिङ्गत्वम् ? अथार्थापत्तितो मन्वादिस्मृतीनां वेदमूलत्वनिश्चयः स्मृतिदाढ्य मन्यथानुपपद्यमानं वेदमूलत्वं कल्पयति इति, तन्न । सर्ववेष्टनादावन्यथाप्युपपत्तेईष्टत्वाद् भट्टपक्षे, प्राभाकरैरेवंविधार्थापत्त्यनभ्धुपगमाच्च। 'ननु कल्पयित्वा मन्वादीनां प्रतारकत्वमन्यथाप्युपपपत्तेरिति वक्तुं न शक्यते, तादृशाञ्च महात्मनां दोषवत्त्वकल्पनायां बहुदुष्टकल्पना 15 प्राप्नोति' । न। संसारिणां रागादिबहुलत्वेन दृष्टत्वात् पुरुषविशेषानभ्युपगमाच्च न काचित् कल्पना। तदुक्तम् 'सर्वदा चापि पुरुषाः प्रायेणान्तवादिनः' इति । अथैवं वेदमूलत्वानभ्युपगमेऽष्टकादिवाक्येभ्योऽवगतेमिथ्यात्वं प्राप्नोति, कारणाभावात् । तन्न । कारणाभावनिश्चये भवतः प्रमाणाभावात्, अनिश्चिते च कारणाभावेऽष्टकादिवाक्येभ्यः प्रतिपत्तेरुद्भवन्त्या अप्रतिपत्तित्वासिद्धिः । यदि प्रतिपत्तेरप्रतिपत्तित्वं नेष्यते भवता 20 तदस्याः प्रतिपत्तेर्भवतः किं जनकं प्रमाणमिति चेद्, वाक्यमेव । मम हि प्रत्यक्षपक्षपातिनो नियमनिश्चयानपेक्षाद् वाक्यादवगतिरुत्पद्यते। न च परेण मूलकारणाभावो निश्चेतुं शक्यते, सभवाद् वेदसंयोगस्य त्रैवर्णिकानाम्। त्रैवर्णिका हि मन्वादयः, तेषाञ्च त्रैवणिकत्वादेव वेदसंयोगः सम्भाव्यते। सम्भवमात्रेण चाभावनिश्चयो निरसितुं शक्यते। उक्तञ्च सम्भवमात्रनिरसनीयश्चाभावो नाशङ्कितसिद्धिमपेक्षते।' एवं परोक्ते 25 कारणाभावनिश्चये निरस्ते निष्प्रतिपक्षावगतिः प्रमाणम् । न च कारणसद्भावनिश्चया
४८