________________
प्रमाणप्रकरणम्
३८५
आह्निकम् ] अधिकारभेदाच्च विचित्रकर्मचोदना नानुपन्ना। मरणकामस्य सर्वस्वारश्चोदितः, आयुष्कामस्य कृष्णलचरुः । तस्मादेतदपि नाप्रामाण्यनिमित्तम्।
यद्यपि बौद्धागमे जातिवादनिराकरणं तदपि सर्वानुग्रहप्रवणकरुणातिशयप्रशंसापरम्। न च यथाश्रुतमवगन्तव्यम्। तथा च तत्रैतत् पठ्यते न जातिकायदुष्टान् प्रव्राजयेदिति। तस्मात् सर्वेषामागमानामाप्तैः कपिलसुगतार्हतप्रभृतिभिः प्रणीतानां 5 प्रामाण्यमिति युक्तम् । केषाश्चिन्मते सर्वेषामेवागमानामीश्वरप्रणीतत्वम्
अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान प्रणेतेति । स हि सकलप्राणिनां कर्मविपाकमनेकप्रकारमवलोकयन् करुणया ताननुग्रहीतुमपवर्गप्राप्तिमार्ग बहुविधमुत्पश्यन्नाशयानुसारेण केषाञ्चित् क्वचित् कर्मणि योग्यतामवगम्य तं तमुपायमुपदि- 10 शति। स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात् स एव संज्ञाभेदानुपगच्छति अर्हनिति कपिल इति सुगत इति । स एवोच्यते भगवान् । नानासर्वज्ञकल्पनायां यत्नगौरवप्रसङ्गात् ।
ननु बुद्धः शुद्धोदनस्यापत्यं स कथमीश्वरो भवेत् ? परिहृतमेतद् भगवता कृष्णद्वैपायनेन
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ इति। शरीरमेव शुद्धोदनस्यापत्यं नात्मा । अतः प्रतियुगं विष्णुरेव भगवान् धर्मरूपेणावतरतीत्यागमविदः प्रतिपन्नाः।
ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं तादृशो महाजनसंप्रत्ययो नास्ति ? एवं 20 नास्ति। तेन वर्त्मना भगवता कतिपये प्राणिनोऽनुगृहीताः, येषां तादृशआशयो लक्षितः। वैदिकेन तु वर्त्मना निःसंख्यकाः प्राणिनोऽनुगृहीता इति तत्र महानादर आग
शयनस्य पूर्वसिद्धस्य लक्षणत्वात् । मरणकामस्य सर्वस्वार इति । 'सर्वस्वारेण मरणकामो यजेत'। आयुष्कामस्येति । ‘शतकृष्णलं चरुन प्राजापत्यमायुष्कामो निर्वपेत्' इति । 'मन्वादिचोदनान्यायः स यद्यपि न विद्यते' इति शैवादिप्रामाण्यसमर्थनावसरे ।