________________
३८६
5
15
[ चतुर्थम्
मान्तरेषु कृश इति । एककर्तृके परस्परविरोधः कथमिति चेद् ? वेवैरेवात्र वर्णित भूम्नः परस्परविरोधस्य दर्शनादित्युक्तम् । तस्मादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम् ।
समाधिः । तेष्वपि
वेदमूलत्वेनैवागमानां प्रामाण्यमिति केचित्
अपरे पुनर्वेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन् । यो हि मन्वादिदेशनानां वेदमूलतायां न्याय उक्तः
भ्रान्तेरनुभवाद्वापि पुंवाक्याद् विप्रलम्भकात् । दृष्टानुगुणसामर्थ्याच्चोदनैव लघीयसी ॥ इति ।
स सर्वागमेषु समानः । न च मन्वादिस्मृतीनां मूलभूता श्रुतिरुपलभ्यते । 10 अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् ।
20
न्यायम
ननु चोक्तम्, 'अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यादिति तच्चेह नास्तीति कथं श्रुत्यनुमानम् ? नैष दोषः
एकाधिकारावगमो न प्रामाण्ये प्रयोजकः ।
मिश्रानुष्ठानसिद्धौ तु कामं भवतु कारणम् ॥
न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति वर्णाश्रमभेदानुष्ठेयकर्मवत् ।
कर्तृ सामान्यशून्यत्वादथ मूलान्तरोदयः । तदसद् बाधकाभावाद् भ्रान्त्यादिप्रतिषेधनात् ॥ प्रत्यक्षमूलतायान्तु गुर्वी भवति कल्पना । वेदस्त्वनन्तशाखत्वान्मूलं तत्र स्वसङ्गतम् ॥ नन्वत्र वेदमूलत्वे द्वेषो वेदविदां कथम् । गत्वा त एव पृच्छ्यन्तां येषां द्वेषादि विद्यते ॥
गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके । प्रत्युक्तश्व विरुद्धत्वं शाखानन्त्याच्च दुर्गमम् ॥
5 यत् किञ्चित् सृष्टं तदिदानीं सर्वागमप्रामाण्यप्रतिपादनावसर उद्घाटयति - अपरे