________________
३८७
माह्निकम् ]
प्रमाणप्रकरणम् किमियद् वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ।
शाखान्तराद् वा संवादो न लभ्येतेति का प्रमा॥ तथा च सांख्यशास्त्रप्रसिद्धत्रिगुणात्मकप्रकृतिसूचनपरम् 'अजामेकां लोहितशुक्लकृष्णामिति वैदिकं लिङ्गमुपलभ्यते । निर्ग्रन्थकथितवचसः चित्तत्त्वज्ञानशंसी चायमनुवादो दृश्यते 'मुनयो वातरसना' इति । एवं रक्तपटपरिग्रहभस्मकपाल- 5 धारणादिमूलमप्यभियुक्ता लभन्त एव।
मन्वादिस्मृतिवत् कर्तृसाम्यस्यासम्भवेऽप्यतः । प्रमाणं वेदमूलत्वाद् वाच्या सर्वागमा स्मृतिः॥
ततश्च
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीत्तितः।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ इत्यत्र यथा मनुग्रहणं गौतमयमापस्तम्बसंवर्तकाठकादिस्मृत्यन्तरोपलक्षणम् एवमहत्कपिलसुगताद्युपलक्षणपरमपि व्याख्येयम् ।
ननु च लोकायताद्यागमोऽप्येवं प्रामाण्यं प्राप्नोति 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्तीति वेदमूलदर्शनात् । ततश्च 15 लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः । उच्यते
पुनर्वेदमूलत्वेनेति । अजामेकामिति । "अजामेकां लोहितकृष्णशुक्लां बह्वीः प्रजाः सृजमानां सरूपाः। अजो टेको भजमानोऽनुशेते जहाति चैनां भुक्तभोगामजोऽन्यः।" इति । अत्र लोहितशुक्लकृष्णग्रहणेन रजःसत्त्वतमोरूपतां तस्या आह । अनुशेते पुनः पुनस्तया सम्बन्धं भजते । मुनयो वातरशना इति । वात एव रशना वासो ग्रन्यनं 20 येषां ते वातरशना अतो वाससोऽभावादेव वातस्तेषां रशना अत एव निर्ग्रन्था भण्यन्ते । रसना इति तु पाठे रस्यत आस्वाद्यत इति रसनं बात एव रसनं येषां वायुभक्षा इत्यर्थः। एवं रक्तपटपरिग्रहेति । तथाहि रक्तपट दर्शनसंस्थोपनिषद्वाक्य भुदाहरति"पोल्कसोऽपोल्कसश्चाण्डालोऽचाण्डालो ब्राह्मणोऽब्राह्मणः श्रमणोऽश्रमणः” इत्यादि तद्दर्शयति । प्रसिद्धामलमार्गप्रवृत्तं श्रमणमाचक्षते, 'श्रामण्यममलो मार्गः' इति हि ते । आहुः इतिः प्रभृति टीकाग्रन्थो मध्ये खण्डितः।