________________
૨૮૮
न्यायमञ्जऱ्या
[ चतुथम
न हि लोकायते किञ्चित् कर्तव्यमुपदिश्यते ।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः॥ ननु च 'यावज्जीवं सुखं जीवेदिति तत्रोपदिश्यते ? न। स्वभावसिद्धत्वेनात्रोपदेशवैफल्यात् । 'धर्मो न कार्य:' 'तदुपदेशेषु न प्रत्येतव्यमि'त्येवं वा यदुपदिश्यते तत् प्रतिविहितमेव, पूर्वपक्षवचनमूलत्वाल्लोकायतदर्शनस्य। तथा च तत्रोत्तरब्राह्मणं भवति 'न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्मा मात्रासंसर्गस्त्वस्य भवतीति । तदेवं पूर्वपक्षवचनमूलत्वाल्लोकायतशास्त्रमपि न स्वतन्त्रम्, उत्तरवाक्यप्रतिहतत्वात्तु तदनादरणीयम् । शास्त्रान्तराणान्तु पूर्वपक्षवाक्यमूलकत्वकल्पनमयुक्तम्, समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेरित्यतो वेदमूलत्वात् सर्वागमः प्रमाणम्। आगमप्रामाण्ये ग्रन्थकारमतम्
सर्वागमप्रमाणत्वे नन्वेवमुपपादिते। अहमप्यद्य यं कश्चिदागर्म रचयामि चेत् ॥ तस्यापि हि प्रमाणत्वं दिनः कतिपयैर्भवेत् ।
तस्मिन्नपि न पूर्वोक्तन्यायो भवति दुर्वचः॥ जरत्पुस्तकलिखितं यदपि तदपि किञ्चिदिदानीं केनापि धूर्तेन प्रख्याप्यते। .
महाजनसमूहे ये प्रसिद्धि प्रापुरागमाः। कृतश्च बहुभिर्येषां शिष्टरिह परिग्रहः ॥ अद्य प्रवर्तमानाश्च नापूर्वा इव भान्ति ये। येषां न मूलं लोभादि येभ्यो नोद्विजते जनः ॥ तेषामेव प्रमाणत्वमागमानामिहेष्यते ।
न मृष्यते तु यत्किञ्चित्प्रमाणं कुट्टिनीमतम् ॥ तथा हि
अमितैकपटनिवीतानियतस्त्रीपुसविहितबहुचेष्टम् । नीलाम्बरव्रतमिदं किल कल्पितमासीद् विटैः कैश्चित् ॥ तदपूर्वमिति विदित्वा निवारयामास धर्मतत्वज्ञः । राजा शङ्करवर्मा न पुनर्जनादिमतमेवम् ॥