________________
आह्निकम् ]
प्रमाणप्रकरणम्
३८९
इत्याप्तोक्तत्वहेतोः परिमुषितपरोदीरिताशेषदोषादेषां वेदागमानां सुदृढमुपगते मानभावे प्ररोहम् । तन्मूलत्वात् तथात्वं पुरुषवचनतो वास्तु शास्त्रान्तराणां
तद्वारेणापि वक्तु न खलु कलुषता शक्यते वेदवाचाम् ॥ वेदप्रामाण्ये शङ्का
ननु नाद्यापि वेदस्य प्रामाण्यं सुस्थवत् स्थितम् ।
स्वदेहसंभवैरेव दोषैरनृततादिभिः॥ 'चित्रया यजेत पशुकामः' पुत्रकामः 'पुत्रष्टया यजेते'ति श्रूयते। न चेष्टयनन्तरं पुत्रपश्वादिफलमुपलभ्यते । तस्मादसत्याः चित्रादिचोदनाः ।
ननु च यः पशुकामः स इष्टि कुर्यादितीयानेव वाक्यार्थः। तत्र यागात् 10 पशवो भवन्तीति एतदेव तावदुपपाद्यम्। ते च भवन्तोऽप्यनन्तरमेव भवन्तीत्येतद् दुरुपपादनम् । अतः कथं न सत्यार्थत्वं चित्रादिचोदनानाम् ? उच्यते, यावज्जीवं यजेत यावज्जीवं जुहुयादिति जीवनवदसाध्यमानपशुकामनव नाधिकारिविशेषणं भवितुमर्हति, पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानस्य तत्राधिकार एव न सम्ञवर्त्तते एव इति निर्णेष्यते एतत् । आनन्तर्यमपि कर्मस्वभावपर्यालोचनेनैव गम्यते, । समनन्तरफलत्वेन कर्मणां दृष्टत्वात् । आह च 'कर्मकाले च फलेन भवितव्यम्, यत्कालं हि मर्दनं तत्कालं मर्दनसुखमिति । अधिकार्यपि पश्वाद्यभावपरितप्यमानमानस एव कर्मण्यधिक्रियते यदि सद्य एव ततः फलमासादयेत् । कालान्तरे च कर्मणः प्रध्वंसात् कुतः फलम् ? आह च 'यदा तावदियं विद्यमानासीत्तदा फलं न दत्तवती यदा फलमुत्पद्यते तदासौ नास्ति, असती कथं फलं दास्यतीति । अपि च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादि । तस्मिश्च कारणे दृष्टे सति को नाम सूक्ष्मदृष्टिरदृष्टं चित्रादिकारणं कल्पयेत् ? तस्मादसत्याश्चित्रादिचोदनाः, प्रत्यक्षादिप्रमाणपरिच्छेदयोग्यार्थोपदेशत्वे सत्यपि तत्संवादशून्यत्वात्, एवंविधविप्रलम्भकवाक्यवत् ।
चित्रादिवचसामेवमपचारस्य दर्शनात् । अनाश्वासोऽग्निहोत्रादिचोदनास्वपि जायते ॥