________________
३९०
न्यायमञ्जयां
[ चतुर्थम अग्निहोत्रचोदना मिथ्या, वेदैकदेशत्वात्,चित्रादिचोदनादिवत्, तदत्र तावदसंवादादप्रामाण्यम् । एवं 'पुत्रकामःपुत्रष्टया यजेते'त्येवमादावपि असंवादो द्रष्टव्यः।
विसंवादोऽपि क्वचिद् दृश्यते । प्रमोते यजमाने पात्रचयाख्यं कर्मोपदिश्यवमादिदेश वेदः स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याती'ति तत्रैष इति 5 तावदात्मनो निर्देशः क्लिष्ट एव, परोक्षत्वात्, स्फ्यकपालादियज्ञायुधसम्बन्धाभा
वाच्च । कायस्त्वेष निर्दिश्यते स न स्वर्ग लोकं यातीति । तद्विपरीतभस्मीभावोपलम्भादिति विसंवादः । एवञ्चासंवादविसंवादाभ्यामप्रमाणं वेदः ।
व्याघाताच्च । उदिते होतव्यमनुदिते होतव्यं समयाध्युषिते होतव्यमिति होमकालत्रयमपि विधाय निन्दार्थवादस्तदेव निषेधति श्यामो वा अस्याहुति10 मभ्यवहरति य उदिते जुहोति, शबलो वा अस्याहुतिमभ्यवहरति योऽनुदिते जुहोति,
श्यामशबलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति । न चार्थवादमात्रमेतदिति वक्तव्यम्, यतः
विधानं कल्पते स्तुत्या निन्दया च निषेधनम् ।
विधिस्तुत्योः समा वृत्तिस्तथा निन्दानिषेधयोः॥ नहिनिन्दा निन्द्यं निन्दितुमुपादीयते किन्तु निन्दितादितरत प्रशंसितुमित्ययमपि प्रकारोऽत्र न सम्भवति, कालत्रयस्याप्यत्र निषेधात्, कस्यान्यस्य तन्निन्दया प्रशंसा विधीयते ? तस्मात् परस्परविरुद्धार्थोपदेशलक्षणाद् व्याघातादप्रमाणं वेदः ।
पौनरुक्तयाच्च । 'त्रिः प्रथमामन्वाह त्रिरुत्तमामि'त्यभ्यासचोदनायां प्रथमो
..... च निषेधेन निवरते तथा निन्दयापीति समा वृत्तिः। इतरप्रशंसार्थमपि निन्दा भवति यथा प्राय गाण्डीवधन्वानं विद्धि कौरव तान् स्त्रियः' इति न केवलं प्रतिषेधायेति यो मन्येत तमपि प्रत्याह न हि निन्दा निन्यं निन्दितुमित्यादि ।
त्रिः प्रथमामिति । सामिधेन्यः समिधामग्नौ प्रक्षेपणमन्त्राः, तस्य प्रक्षेपणाख्यस्य कर्मणो हि प्रकाशकोऽसौ मन्त्रः, तच्च सकृदुच्चारितेनापि तेन शक्यते कर्तुं
प्रकाशनमिति त्रिरुच्चारणं पुनरुक्तम् । एकादश च ते मन्त्राः पठ्यन्ते, ‘पञ्चदश साम25 धेनीरनुब्रूयात्' इति च श्रूयते, अतः प्रथमोत्तमयोस्त्रिरुच्चारणं पञ्चदशसङ्ख्या
सम्पत्त्यर्थं क्रियते।