________________
प्रमाणप्रकरणम्
आह्निकम् ]
३९१ तमयोः सामिधेन्योस्त्रिर्वचनात पौनरुक्तयम्। सकृदनुवचनेन तत्प्रयोजनसम्पत्तेरनर्थक त्रिर्वचनम् । तस्मादित्थमनृतव्याघातपुनरुक्तदोषकलुषितत्वादप्रमाणं वेदः । तदाह सूत्रकारः “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः" पुत्रकामेष्टिहवनाभ्यासेष्विति। वेदप्रामाण्ये शङ्कानिरसनम्
अत्र समाधिमाह "न । कर्मकर्तृसाधनवैगुण्यादिति" । अयमाशयः अप्रामाण्यसाधनमनृतत्वं पररुक्तम्, अनृतत्वे च साधनं फलादर्शनम्, एतच्चानकान्तिकम्, अन्यथापि फलादर्शनोपपत्तेः। किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम् उत कर्तादिवैगुण्यादिति ? न विशेषहेतुरस्ति । ननुन कदाचिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगुण्यमिति, तदयुक्तम्। अविगुणायां कारीयाँ प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात्। न च तत् काकतालीयम, आगमेनान्वयव्यतिरेकाभ्याञ्च तत्कारणत्वदर्शनात् । पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयेव न सद्यो भवितुमर्हति । न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः, स्त्रीपुसयोगकारणान्तरसव्यपेक्षत्वात्तदुत्पत्तेः। पश्वादिप्राप्तिस्तु कस्यचिदुत्तरकालेऽपि दृश्यते प्रतिग्रहादिना । तथा ह्यस्मपितामह एव ग्रामकामः सांग्रहणीं कृतवान् । स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप । नन्वेवं तहि प्रतिग्रहाद्येव दृष्टं कारणमस्तु पश्चादेः पुत्रस्य च स्त्रीपुसयोगः, किमिष्टेः कारणत्वकल्पनयेति ? मैवं वोचः। सत्स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतद्दर्शनादिष्टिकृतं स्त्रीपुसयोगादिकारणत्वमिति निश्चीयते। किञ्च
कर्मकर्तृसाधनवैगुण्यादिति । इष्टया पितरौ संप्रयुज्यमानौ पुत्रं जनयत इति।। इष्टिः करणं साधनम्, कर्तृ लक्षणं पितरः, तत्सम्प्रयोगः कर्म, त्रयाणामपि गुणसंयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः । इष्टयाश्रयं तावत् कर्मवैगुण्यं समीहाभ्रषः; कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणं वा; साधनवैगुण्यं हविर्न संस्कृतमुपहृतमिति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता वेति। उपजनाश्रयं कर्मवैगुण्यं मि [थ्यासम्प्रयोगः], कतृ वैगुण्यं योनिव्यापदो बीजोपघातश्च; साधनवैगुण्यमिट्यामभिहितम्, कपूयाचरणःकुत्सिताचारः, मिथ्यासम्प्रयोगः पुरुषायितत्वादिनासम्प्रयोगा:
25