________________
३९२
न्यायमञ्जयां
[चतुर्थम् सेवाध्ययनकृष्यादिसाम्येऽपि फलभेदतः । वक्तुं न युक्ता तत्प्राप्तिदृष्टिकारणमात्रजा। भूतस्वभाववादश्च पुरस्तात् प्रतिषिध्यते ।
तस्मानूनमुपेतव्यमत्रान्यदपि कारणम् ॥ तदुक्तम्, तच्चैव हि कारणं शब्दश्चेति । यत्र पुनरविगुणेऽपि कर्मणि प्रयुज्यमाने कालान्तरेऽपि पुत्रपश्वादिफलं न दृश्यते तत्र तीव्र किमपि प्राक्तनं कर्म प्रतिबन्धकं कल्पनीयम् । यथोक्तम् "फलति यदि न सर्वं तत् कदाचित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते' इति । कर्मादिवैगुण्यग्रहणमुपलक्षणार्थमृषिणा प्रयुक्तम् । न तु वेदस्याप्रामाण्यकल्पना साध्वी साद्गुण्ये कर्मणः प्राचुर्येण फलदर्शनात्।
अपि च चित्रातः पशवो भवन्तीत्येतावानेव शास्त्रार्थः। आनन्तर्ये तु न किञ्चित् प्रमाणमस्ति। तदयं प्रत्यक्षादिसंवाद आनन्तर्यविषयः, चित्रादिचोदना त्वनिर्दिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते । तदाह भट्टः
आनन्तर्याद्यसंवादो नाविशेषप्रवतिनीम् ।
चोदनां बाधितुं शक्तः स्फुटाद् विषयभेदतः ॥ ति भूतस्वभाववादश्चेति । शरीरारम्भकाणि यानि भूतानि तेषामोहक कश्चित् स्वभावविशेषो यत् कानिचिदेव पश्वादिभिः सम्बध्यन्ते कानिचिन्नेति ।
तच्चैव हि कारणम् इति। शाबरं भाष्यम् ‘यच्च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमस्तीति। नैष दोषः” इति । अतः परं स्थितम् । यद्यपि प्रत्यक्षतः सेवादीनां कारणत्वमवगम्यते तथापि शब्दात् 'चित्रया यजेत पशुकामः' इत्यादेश्चित्रादीनामपि कारणत्वावगमः; यथा प्रत्यक्षं प्रमाणं तथा शब्दोऽपीत्यर्थः । कर्मादिवैगुण्यग्रहणमिति । यथा कर्मादिवैगुण्यात् फलं न भवति एवं तीव्रप्राग्भाविकर्मा तरप्रतिबन्धादपीति । ननु कथमेवंप्रायाः कल्पनाः स्थाप्यन्ते, किमाभिरित्याशङ्याह-न तु वेदस्याप्रामाण्यकल्पनेति । साद्गुण्ये कर्मण इति । अरणिनिर्मथनसाद्गुण्येन कृतादग्न्युत्पत्तिदर्शनादन्यथा चादर्शनादिति।
नाविशेषप्रवतिनीमिति । 'चित्रया पशुकामो यजेत' चित्रातः पशवो भवन्तीत्येतावत्येवाविशेषेण चोदनैषा स्थिता, न पुनरनन्तरं भवन्तीति विशेषेपीत्यर्थः ।