Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 453
________________ ४०२ न्यायमञ्जय [ चतुर्थम् पदेशः ? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुरनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् । अपि च 'न पृथिव्यामग्निश्वेतव्यो नान्तरिक्षे न दिवीति' वेदे चयननिषेध एवात्र भङ्गया भवेद् । दिवि चान्तरिक्षे च तावच्चयनप्रयोग एव नास्ति किं तन्निषे5 धेन ? पृथिवीचयननिषेधार्थञ्च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत् अपृथिव्यधिकरणस्य चयनस्यानुपपत्तेः । 25 अपि च ' यजमानः प्रस्तरः' 'आदित्यो यूपः' इत्येवंजातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनामर्थवादानां का परिनिष्ठेति ? तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते । नापि तेभ्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम्, अशक्यत्वात् । 'सोऽरोदीद्10 यदरोदीत् तद्रुद्रस्य रुद्रत्वमित्यत्र कार्यं कल्प्यमानमेवं कल्प्येत रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यमिति । तच्चाशक्यम् । प्रियविप्रयोगजनितसंतापवशेन हि वाष्पमोचनं रोदनमुच्यते । न तच्चोदनोपदेशात् कत्तु शक्यते । 'प्रजापतिरात्मनो वपामुच्चिखेद तस्मादन्योऽप्येवमुत्खिदेदात्मनो वपामिति दुरनुष्ठानोऽयमर्थः । को हि नामात्मनो वपामुत्खिदेत् । कस्य वा वपाहोमे सति समनन्तरमेव अजः पशुस्तूपर 15 उद्गच्छेद् इति । देवा दिशो नाज्ञासिषुरतोऽन्योऽपि न जानीयादिति अशक्योप - देशः । न हि दिङ्मोहो नामोपदेशात् कर्तुं शक्यः । न च सर्वस्मादर्थवादाद् विधिः कल्पयितुं शक्य इति मध्यमोऽपि न सत्पक्षः । नापि तृतीय: पक्ष: सम्भवति । वाक्यान्तरविहित कार्यरूपार्थी पकत्वं हि तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा 'अग्निहोत्रं जुहोती' त्यत्र 'दध्ना 20 जुहोति' 'पयसा जुहोती' ति द्रव्यविनियोगविधेः।'यदग्नये च प्रजापतये च सायं जुहोति' इति देवताविधेर्वा । न चायमर्थवादेषु प्रकारः सम्भवति । न चैभिः 'व्रीहीनवहन्ति' न पृथिव्यामग्निरिति । अग्न्याधारभूतानामिष्टकानां विशिष्टेन सन्निवेशेन स्थापनमग्निचयनम् । तासामाधारभूतो दर्भः प्रस्तरणम् । अग्निहोत्रं जुहोति । केन द्रव्येणेत्यपेक्षायामाह पयसाग्निहोत्रमिति । का च तत्र देवतेत्याह यदग्नये चेति । व्रीहीन् अवहन्तीति । दृष्टेतिकर्तव्यतातण्डुलनिष्पत्त्यर्थमपेक्षणात् । प्रोक्षणं तद्दृष्टोपकारार्थमनपेक्षणाददृष्टेतिकर्तव्यता ।

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544