________________
४०२
न्यायमञ्जय
[ चतुर्थम्
पदेशः ? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुरनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् ।
अपि च 'न पृथिव्यामग्निश्वेतव्यो नान्तरिक्षे न दिवीति' वेदे चयननिषेध एवात्र भङ्गया भवेद् । दिवि चान्तरिक्षे च तावच्चयनप्रयोग एव नास्ति किं तन्निषे5 धेन ? पृथिवीचयननिषेधार्थञ्च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत् अपृथिव्यधिकरणस्य चयनस्यानुपपत्तेः ।
25
अपि च ' यजमानः प्रस्तरः' 'आदित्यो यूपः' इत्येवंजातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनामर्थवादानां का परिनिष्ठेति ? तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते ।
नापि तेभ्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम्, अशक्यत्वात् । 'सोऽरोदीद्10 यदरोदीत् तद्रुद्रस्य रुद्रत्वमित्यत्र कार्यं कल्प्यमानमेवं कल्प्येत रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यमिति । तच्चाशक्यम् । प्रियविप्रयोगजनितसंतापवशेन हि वाष्पमोचनं रोदनमुच्यते । न तच्चोदनोपदेशात् कत्तु शक्यते । 'प्रजापतिरात्मनो वपामुच्चिखेद तस्मादन्योऽप्येवमुत्खिदेदात्मनो वपामिति दुरनुष्ठानोऽयमर्थः । को हि नामात्मनो वपामुत्खिदेत् । कस्य वा वपाहोमे सति समनन्तरमेव अजः पशुस्तूपर 15 उद्गच्छेद् इति । देवा दिशो नाज्ञासिषुरतोऽन्योऽपि न जानीयादिति अशक्योप - देशः । न हि दिङ्मोहो नामोपदेशात् कर्तुं शक्यः । न च सर्वस्मादर्थवादाद् विधिः कल्पयितुं शक्य इति मध्यमोऽपि न सत्पक्षः ।
नापि तृतीय: पक्ष: सम्भवति । वाक्यान्तरविहित कार्यरूपार्थी पकत्वं हि तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा 'अग्निहोत्रं जुहोती' त्यत्र 'दध्ना 20 जुहोति' 'पयसा जुहोती' ति द्रव्यविनियोगविधेः।'यदग्नये च प्रजापतये च सायं जुहोति' इति देवताविधेर्वा । न चायमर्थवादेषु प्रकारः सम्भवति । न चैभिः 'व्रीहीनवहन्ति'
न पृथिव्यामग्निरिति । अग्न्याधारभूतानामिष्टकानां विशिष्टेन सन्निवेशेन स्थापनमग्निचयनम् । तासामाधारभूतो दर्भः प्रस्तरणम् ।
अग्निहोत्रं जुहोति । केन द्रव्येणेत्यपेक्षायामाह पयसाग्निहोत्रमिति । का च तत्र देवतेत्याह यदग्नये चेति । व्रीहीन् अवहन्तीति । दृष्टेतिकर्तव्यतातण्डुलनिष्पत्त्यर्थमपेक्षणात् । प्रोक्षणं तद्दृष्टोपकारार्थमनपेक्षणाददृष्टेतिकर्तव्यता ।