________________
आह्निकम् ]
प्रमाणप्रकरण
'व्रीहीन प्रोक्षनी' तिवद् दृष्टा अदृष्टा वा काचिदितिकर्तव्यतोपदिश्यते । तस्मान्न तेषां तदौपयिकत्वम् ।
४०३
ननु प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमा वहन्तोऽर्थ वादास्तदुपयोगिनो भविष्यन्ति ? नैतदपि सम्यक् । प्रवृत्त्युत्साहो हि केषाञ्चिन्मते निरपेक्षशब्दप्रत्ययादेव सिद्धयति । अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया ? 5 एवं काम इदं कुर्यादित्युक्ते यस्तत्र न प्रवर्त्तते स प्ररोचनयापि न प्रवर्तत एवेति यत्किश्विदेतत् । तदेवं प्रकारत्रयेणाप्यर्थवादपदानामनन्वयात् एकदेशाक्षेपेण सर्वाक्षेप एव क्रियत इति अप्रमाणं वेदः ।
ननु यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते तावत्येवाप्रामाण्यमस्तु सर्वत्र तु कुतस्त्या तदाशङ्केति ? मंवम् । तत्सामान्यादन्यत्राप्यनाश्वासः । मीमांसकपक्षे 10 हि अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात् तदनुषङ्गेण सर्वत्र सापेक्षत्वमवतरति । नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क्वचिद् वितथवादित्वे दृश्यमाने कथमन्यत्र सत्यवादितायां दृढः प्रत्ययो भवेदित्य प्रामाण्यं सर्वत्रेति ।
वेदप्रामाण्येऽर्थवादानां बाधकत्वनिरसनम्
अत्राभिधीयते । विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते । 15 'वायव्यं श्वेतमालभेत भूतिकाममः' 'वायुवं क्षेपिष्ठा देवता' इत्यतो यद्यपि क्रिया नावगम्यते नापि तत्सम्बद्धः कश्चिदर्थस्तथापि विध्युद्देशेनैकवाक्यत्वं प्रतीयते । भूतिकाम इत्येवमन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायु क्षेपिष्ठेत्येवमादिः 1 कथमेकवाक्यभावः ? पदानां साकाङ्क्षत्वात् ।
ननुभूतिकाम इत्येवमन्तेन वाक्येन विधेयं विहितम्, उत्पादितं प्रतिपत्तुर- 20 नाकाङ्क्षत्वम्, कृतश्च शब्दकर्तव्यमिति किमनेन क्षेपिष्ठेत्यादिना प्रयोजनम् ? तदर्थस्यैव स्तुतिरिति ब्रूमः ।
केषाञ्चिन्मते मीमांसकानाम् ।
वायव्यमिति वायुमेव स्वेन भागधेयेनोपधावति वायवे देयो यः पशुः स वायोः स्वं भागधेयम्, तेन वायुमुपधावति उपसर्पति स्वाभिमुखं करोति । क्रियया सम्बन्धः 25 द्रव्यदेवतादिः । एवमन्तो विध्युद्देशः । विधिरनुबन्धद्वयानुबद्ध उद्दिश्यते येन ।