________________
४०४
न्यायमञ्जा
[ चतुर्थम् ननु स्तुत्या कि प्रयोजनम्, स्तुतोऽस्तुतश्च तावानेव सोऽर्थः ? मैवम् ।स्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं विधायकं भवति । किमिदानीं केवलं लिडादियुक्तं वाक्यं न विधायकमुच्यते यदि स्तुतिपदानि न श्रूयन्ते ? तद् बाढं भवति
विधायकम् । एतेषु च सत्सु तत्सहितं तद्विधायकं भवति न केवलम्, तथा प्रतीतेः । 5 स्तुतिपदसम्बन्धे सति भिन्नवाक्यतामाभूदिति विधिपदेन च स्तुतिपदेन च सम्भूयार्थो
विधीयते, तथावगमात् । अन्यथा हि प्रतीयमानः पदार्थान्वयस्त्यज्येत, वाक्यभेदो वा कल्प्येत । तस्मान्न स्तुतिपदानामानर्थक्यम् ।
ननु केवलस्यापि विधिवाक्यस्य सामर्थ्यात् किमर्थं स्तुतिपदानि प्रयुज्यन्त इति ? उच्यते।अपर्यनुयोज्यो जैमिनीयानां मतेशन्दः । अस्माकञ्च भगवानीश्वरः। उक्ते सति प्रतिपत्तारोवयम् वेदस्य न कर्तारः । प्रतिपत्तौ च क्रमो दर्शितः । एवञ्च यद्यपि द्रव्यदेवतेतिकर्तव्यताविधानद्वारकमङ्गविधिवदर्थवादवाक्यानां कायौ पयिकत्वं नास्ति तथापि प्रतीत्यङ्गत्वं न निवार्यते। अत एव प्रमाणोपयोगित्वमाचक्षते न प्रमेयोपयोगित्वम । केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः। तत्र विधिविभक्तेः शक्तिरवसीदति। तां निमज्जन्तीमिवार्थवादजनितकर्मप्राशस्त्यप्रत्यय उत्तभ्नाति । 'सर्वजिता यजेते' त्यतो न तथाविधः श्रद्धातिशयो भवति यथाविधः 'सर्वजिता वै देवाः सर्वमयजन सर्वस्याप्त्यै सर्वस्य जित्य सर्वमेवैतेन सर्व जयति' इत्यर्थवादपदेभ्यः । लोकेऽपि इयं गौः क्रेतव्येत्यतो न तथा क्रेतारः प्रवर्तन्ते यथा एषा बहस्निग्धक्षीरा सुशीला सापत्या अनवप्रजा चेत्येवमादिभ्यः स्तुतिपदेभ्यः ।
20 अङ्गविधिवत् । अङ्गविधयः प्रयाजादिविधयः। प्रतीत्यङ्गत्वमिति । केवलाद्
विध्युद्देशात् स्तुतिरहितस्य विषयस्य प्रतीतिः सार्थवादकात्तु सस्तुतिकस्येति सस्तुतिकविषयप्रतीतावङ्गमर्थवादाः ।दारा इत्यादी बहुत्ववद्वा प्रतीत्यङ्गबहुत्वयुक्तं द्रव्यं प्रतीयते केवलम्, कार्ययोगः पुनरेकस्यैव; एवं सस्तुतिको विषयः प्रतीयत एव, अनुष्ठीयते तु शुद्ध एवेति । अत एव प्रमाणोपयोगित्वमिति । शब्दतः प्रतिपन्नापि स्तुतिः प्रमाणस्य लिङादेः प्रत्ययस्य कर्तव्यतावबोधं प्रति साहाय्यकरणात् प्रमाणोपयोगिनी। अत एव प्राभाकरा वेदोऽर्थवादा न तु वैदिकाः इत्याहुः; वेदोऽवबोधका न वैदिकाः प्रमेया इत्यर्थः । न प्रमेयोपयोगित्वम् । प्रमेयं तादृगेव स्तुतं चास्तुतं चेति ।