________________
आह्निकम् ] प्रमाणप्रकरणम्
४०५ स्वानुभवसाक्षिकोऽयमर्थः । अत एव केचिदश्रुतार्थवादकेऽपि विधिवाक्ये तत्कल्पनमिच्छन्ति, यथा क्वचिदर्थवादाद विधिकल्पनमिति । यथोक्तम् (विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते' । अनधिगम्यमानविधिवाक्यसंबन्धाच्च अर्थवादाद् विधिरुन्नीयते न गम्यमानविधिसंबन्धात् ।
___ अत एव च 'सोऽरोदीदि' त्येवमादिभ्यो न रोदितव्यमित्यादिविधिकल्पन- 5 मिष्यते । मुधैव पूर्वपक्षिणा तदाशङ्कितम् । विध्यन्तरेणकवाक्यत्वं हि प्रत्यक्षमिहोपदिश्यते । वहिषि रजतं न देयमित्यस्य विधेः शेषोऽयं सोऽरोदीदित्यादिः। 'रुद्रोरुरोद' तस्य यदश्रु अशीर्यत तद्रजतमभवत्, 'यो हि बर्हिषि रजतं ददाति पुराअस्य संवत्सराद् गृहे रोदनं भवती' ति तस्माद् बहिषि रजतं न देयमिति । 'प्राजापत्यमजं तूपरमालभेते' त्येतस्य विधेःशेषः प्रजापतिरात्मनो वपामुदखिददिति वपाहोममाहात्म्य- 10 प्रदर्शनार्थमुच्यते 'अग्नौ वै प्रगृहीतमात्रायां वपायामजस्तूपर उदगादिति । 'आदित्यः प्रायणीयश्चरुरि'त्यस्य विधेः शेषोऽयं देवा वै 'देवयजनमध्यवसाय दिशो न प्राजाननित्थं व्यामोहानामादित्यश्च शयिता यथा दिङ्मोहस्येति । एवं तत्र तत्र विधिशेषत्वमर्थवादानां वेदितव्यम् ।
कथं पुनरिदमसत्यमेवोच्यते रुद्ररुदिताद्रजतमजायत, प्रजापतिवपाहोम- 15 समिद्धादग्नेरजस्तूपर उदगादिति ? उच्यते । नेदमसत्यम् । यदस्य वाक्यस्य प्रतिपाद्यं तत्र सत्यार्थमेवेदम् ।न चास्य यथाश्रुतोऽर्थः प्रतिपाद्यः किन्तु विधेयो निषेध्यो वा
स्वानुभवसाक्षिक इति । स्तुतिवाक्यमेव विधिवाक्यम्. स्तुतित एव विध्यर्थावगमात् न तत्रान्यस्य विधिवाक्यस्य कल्पनमुपयुज्यत इत्यनुभवसाक्षिकमेतत् । यद् विधिवाक्यात् प्रतीयते तत् स्तुतिपदेभ्योऽपि प्रतीयत इत्यत्रानुभवः साक्षी। तथापि केचित् कल्पनमिच्छन्ति । यथा 'यो ब्राह्मणायावगूरेत् तं शतेन यातयात्' इत्यर्थवादाद् 20 ब्राह्मणावगूरणं न कर्तव्यमिति निषेधविधिवाक्यकल्पनम् ।
आदित्यः प्रायणीयश्चरुरिति । प्रयन्ति प्रारभन्तेऽनेन यज्ञमिति प्रायणीयोऽदितिदेवताकश्चरुः। दर्शपूर्णमासकर्मसम्बद्धस्य हौमिकस्य वह्नः कर्मसमूहस्योपस्थानात् किं कथं कर्तव्यमिति कर्मक्रमाद्यनवधारणरूपो यो भ्रमः सोऽनेन चरुणा निवर्त्यते, अवकाशदानात् । अत्र प्रवृत्त्या हि अवकाशं लभन्ते 'इदं कृत्वा इदं क्रियते' इति । 25 यथा दिङ्मोहेति दिङ्मोह इव दिङ्मोहः, यथा दिङ्मोहे सति न क्वचित् प्रवर्तितुं शक्यत एवं कर्मक्रमाद्यनवधारणेऽपीति । अपि दिङ्मोहस्य किं पुनः दिङ्मोहस्येत्यर्थः ।