________________
४०६
न्यायमञ्जयाँ
[चतुर्थम् कश्चिदर्थः । इहान्वाख्याने द्वयमापतति यच्च वृत्तान्तज्ञानं यच्च कस्मिश्चिदर्थे प्ररोचनाद्वेषौ । तत्र वृत्तान्तज्ञानं न प्रवर्तकं न निवर्तकमिति प्रयोजनाभावादनर्थकमनादरणीयम् । प्ररोचनाद्वेषौ तु प्रवृत्त्यङ्गत्वात् तदथी गृहीत्वा प्ररोचनायाः प्रवर्तेत द्वेषान्निवर्तेतेति तत्र तत्प्रतिपाद्यसत्यार्थ एवार्थवादः।
यत्तु अरुदति रुद्रे कथं तद्रोदनवचनम्, अनश्रुप्रभवेऽपि रजते कथं तदुद्भवताभिधानमिति गुणवादमात्रम्। गौण एष वादः । श्वेतवर्णसारूप्यादिना रोदनप्रभवं रजतं निन्दितुमुच्यते । एवं पशुयागे वपाहोमप्रशंसाय 'प्रजापतिरात्मनो वपामुदखिददिति वृत्तान्ताख्यानं योजनीयम् । आदित्यचरुप्रशंसाय देवा देवयजनमध्यवसाय दिशो न प्राजाननिति।
अथ वा नैयायिकानामनेकप्रकारपुरुषातिशयवादिनां यथाश्रुतेऽप्यर्थे नात्यन्तमसम्भवः । रुद्रस्य रुदिताद्रजतजन्म, प्रजापतेर्वपोखेदः, तद्धोमातूपरपशूद्गमः, देवानां देवयजनाध्यवसाने दिङ्मोह इत्येवंजातीयकमपि सत्यमस्तु को दोषः ? तत, सर्वथा अर्थवादानां प्रामाण्यम्।
एवं 'स्तेनं मनोऽनृतवादिनी वागि'ति गौण एष वादः । प्रच्छन्नतया स्तेनं 15 मन उच्यते बाहुल्याभिप्रायेण चानृतवादिनी वागिति।
___ 'धूम एवाग्नेदिवा ददृशे नाचिरचिरेवाग्नेर्नक्तं ददृशे न धूमः' इति दूरभूयस्त्वाभिप्रायेण कस्मैचित् प्रयोजनाय सायंप्रातही मदेवतास्तुतये कथ्यते।।
'न चैतद् विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वेति प्रवरानुमन्त्रणप्रशंसाय
10
20
वृत्तान्तज्ञानं पुरैवमासीदिति ।
यत्त्वरुदति रुद्र इति । अरुदति प्रमाणान्तरादनुपलभ्यमानरोदन इत्यर्थः । अनश्रुप्रभवेऽपीति । प्रमाणान्तराद् रजताकाराद् रजतप्रभवदर्शनात् ।
एवं स्तेनं मन इति । सोममाने श्रूयते 'हिरण्यं हस्ते भवत्यथ गृह्णाति' इति हिरण्यं हस्ते गृहीत्वा अथ सोमं मातुं गृह्णातीत्यर्थः । ननु अहिरण्यहस्त एव कस्मान्न गृह्णाति तदाह ‘स्तेनं मनोऽनृतवादिनी वागि'ति । हिरण्यहस्तेन यत् कृतं तत् सत्यं न मनसा वाचा वेति हिरण्यस्तुत्यर्थं तयोनिन्दा ( अतःपरं टीकाग्रन्थो नष्टः )।
.......ऽब्राह्मणा वेति संशयरूपमज्ञानम्, अब्राह्मणोऽप्यनेन ब्राह्मणो भवतीति