________________
४०७
.5
आह्निकम् ]
प्रमाणप्रकरणम् संशय इव दशितः । अब्राह्मणोऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति । 'को ह वै तद्वद यदमुष्मिब्लोकेऽस्ति वा न वेति दृष्टफलं किमपि कर्मस्तोनुच्यते।
'शोभतेऽस्य मुखं य एवं वेदेति विद्याप्रशंसैषा। शोभते इति शिष्यरुद्वीक्ष्यमाणस्य मुखमिति। सर्वान् कामानबाप्नोति इति सर्वत्वं प्रकृतापेक्षम्। स्तुत्यर्थञ्चाश्वमेधाध्ययनेऽपि तत्फलवचनम् ।
_ 'हिरण्यं निधाय चेतव्यमिति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्याञ्च चयनं प्रतिषिध्यते । अनुपहितहिरण्यायां पृथिव्यामग्निर्न चेतव्यो न पुनर्न चेतव्य एव तस्यामिति ।
'आदित्यो यूप' इत्थमञ्जने सति तेजस्वितया यूपस्यादित्यरूपता स्तुतये कथ्यते । तत्कार्यकारित्वाच्च यजमानः प्रस्तर उच्यते। न हि मुख्ययैव वृत्त्या लोके 10 शब्दाःप्रवर्तन्ते, गौण्यापि वृत्त्या व्यवहारदर्शनातः । एवं वेदेऽपि तेषां तथा प्रयोगो भविष्यति । इत्थश्च मन्त्रेष्वप्यन्द्रया गार्हपत्योपस्थानमविरुद्धम् । एवं स्तुतिनिन्दास्तुतिः। को ह वै तद्ववेति यदुच्यते तद् दृष्टफलं कर्म स्तोतुमुच्यते । 'दीक्षितशालायामुपभद्रादिप्रचारकाले 'दिक्ष्वतीकाशान् कुर्यात्' इति श्रूयते । अतीकाशा धूमनिर्गमनविवरप्रदेशाः। किमति कुर्यादित्याकाङ्क्षायां वाक्यशेष: 'को ह वै तद्वेद' । 'को हि 15 तदन्यत् स्वर्गादि फलं जानाति यदमुष्मिल्लोके भवति वा न वा' इति । एतत्त्वतीकाशकरणं दृष्टफलमेव, दृष्टेन धूमनिर्गमनलक्षणेन फलेन फलतत्त्वादस्येति स्तुतिः।
विद्याप्रशंसा गर्गत्रिरात्रब्राह्मणज्ञानस्तुतिः। सर्वत्वं प्रकृतापेक्षमिति । पूर्णाहुत्या सर्वान् कामानवाप्नोति । सर्वकामफलस्य दर्शपूर्णमासादिकर्मसमूहस्य निमित्त आहवनीये प्राप्यमाणे पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति स्तुतिः । एवं तर्हि 20 अन्तर्धानादिफलानामपि कर्मणामाहवनीयो निमित्तं प्राप्त इत्याह प्रकृतापेक्षमिति । प्रकृतानि यान्यग्निहोत्रादिकर्माणि तेषां निमित्तं पूर्णाहुत्या आहवनीयः प्राप्यते, तस्मिन् प्राप्त प्रस्तुतानि कर्माण्यनुष्ठीयन्ते अग्निहोत्रादिकानि, ततस्तत्तत्फलमिति । दृष्टश्च प्रकृतापेक्षः सर्वशब्दः 'सर्वमनेन भुक्तम्' इतिवत् । अश्वमेधाध्ययनेऽपीति । आस्तां तावदश्वमेधानुष्ठानं योऽपि वेद सोऽपि मृत्युं तरतीत्यश्वमेधानुष्ठानस्यैव स्तुतिः। 8
अञ्जने सति घृतादिना। तत्कार्यकारित्वाद् यज्ञनिर्वर्तकत्वाद् यजमानकार्यकारित्वं प्रस्तरस्य । ऐन्द्रया गार्हपत्योपस्थानमविरुद्धमिति इन्द्रप्रतिपादकानां