SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४०८ न्यायमञ्जयां [चतुर्थम् स्वरूपास्तावदर्थवादा विध्येकवाक्यत्वेन प्रमाणम् । परकृतिपुराकल्पस्वरूपा अपि तथैव योज्याः। क्वचित् पुनरर्थवादेव कश्चिदंशः पूर्यत इति, न तु प्रतीत्यङ्गत्वमेव तस्य कार्याङ्गत्वमपि भवति । यथा 'प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ति' इत्यश्रूयमाणाधिकारस्य रात्रिसत्रविधरधिकारांशोऽर्थवादादेव लभ्यते । यथोक्तं 'फलमात्रेयो निर्देशादि'ति, तत्र हि प्रतिष्ठाकामाः सत्रमासीरन् इत्यर्थवादवशाद् गम्यते वाक्यार्थः। क्वचिद् विधिवाक्यस्यार्थसंदेहेऽर्थवादात्मकान वाक्यशेषात् तंनिश्चयो भवति। यथा 'अक्ताः शर्करा उपदधाती'त्यञ्जनद्रव्ये घृततैलवसादिभेदेन तदिह्यमाने 'तेजो 10 वै घृतमिति अर्थवादाद् घृतेनाक्ताः शर्करा उपधेया इति गम्यते । इत्यर्थवादा विधिनैक्यभावात् तद्वत् प्रमाणत्वममी भजन्ते। अस्ति प्रतीत्यन्वयिता हि तेषां क्वचिच्च कार्यान्वयिता तु दृष्टा ॥ यद्वा स्वरूपपरतामपि संस्पृशन्ति प्रामाण्यवर्म त इमे न परित्यजन्ति । नैयायिका हि पुरुषातिशयं वदन्तो वृत्तान्तवर्णनमपीह यथार्थमाहुः ॥ पदानां 'कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इत्यस्यामैन्द्रयामृचि ऐश्वर्यादियोगाद् गौण्या वृत्त्या गार्हपत्येऽपि प्रवृत्तिरविरुद्धा। परकृतिपुराकल्पस्वरूपाः पूर्वं दर्शिताः, यथा चात्र दाल्भ्य आह — माषानेव मह्यं पचते'ति परकृतिरूपोऽर्थवादः, तस्मादारण्यानेवाश्नीयादित्येतद् विधिशेषः। 'उल्मुकैर्ह स्म पुरा समाजग्मुरि'ति च पुराकल्परूपोऽर्थवादः । तस्माद् गृहपतेरेव निर्मन्थ्याग्निषु स पचन् पचेदित्येतच्छेषः । विशिष्टनामधेयतया ज्ञातकर्तृक कर्मसम्बद्धोऽर्थवादः परकृतिः, अविज्ञातकर्तृकर्मसम्बद्धस्तु पुराकल्प इति । प्रतितिष्ठन्ति ह वेति । 'त्रयस्त्रिंशद्रात्रमुपेयुरि'त्येतावन्मानं श्रूयते, किंकाम इति तु न श्रूयते। फलमात्रेयो निर्देशादिति । 'प्रतितिष्ठन्ति हवा' इत्यादि किं फलार्थ 20 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy