________________
प्रमाणप्रकरणम्
5
आह्निकम् ]
आदित्ययूपवचनादिषु तु स्वरूपयाथार्थ्यमित्थमुपपादयितुं न शक्यम् । गौणीन्तु वृत्तिमवलम्व्य कृता तदर्थ
व्याख्येति तेष्वपि न विप्लवनावकाशः ॥ मन्त्राणामपि न वेदप्रामाण्योपघातकत्वम्
अथेदानी मन्त्रा विचार्यन्ते । किमर्थप्रकाशनद्वारेण विध्यर्थोपयोगिता तेषाम उत उच्चारणमात्रेणेति ? ननूभयथापि प्रामाण्याविशेषात् किं तद्विचारेण ? न हीदं शास्त्रं वेदस्यार्थविचाराय मीमांसावत प्रवृत्तम,अपितु प्रामाण्यनिर्णयायैवेति। सत्यम्। प्रामाण्यनिर्णयायेदं शास्त्रं प्रवृत्तम्, अविवक्षितार्थत्वे तु मन्त्राणामप्रतिपादकत्वलक्षणमप्रामाण्यमेव भवेत् ततसामान्याद् वेदब्राह्मणवाक्यानामपितथाभावप्रसङ्ग इति 10 वेदस्य कर्मावबोधार्थत्वं हीयते। न च संशयविपर्ययजननमेवाप्रामाण्यम्, अज्ञानजनकत्वमप्यप्रामाण्यमेव। तदुच्यते। उच्चारणमात्रोपकारिणो मन्त्राः। कुतः? तथा विनियोगोपदेशात् । 'उरु प्रथा उरुप्रथस्वे'ति पुरोडाशं प्रथयति । यद्यर्थप्रकाशनोपकारिणो मन्त्राः, सामर्थ्यादेव प्रथनोपयोगी मन्त्रोऽयमिति किमर्थं प्रथने विनियुज्यते ववनेन ? वादमात्रमुत फलविधिरिति संशये फलार्थवादमात्रमित्यत्र पूर्वपक्षे सूत्रम् "क्रतो फलार्थवादमङ्गवत् कार्णाजिनिः' इति क्रतावस्मिन् रात्रिसत्रे फलमर्थवादतया कार्णाजिनिराचार्यो मेने, यथा 'यस्य खादिरः सुवो भवति च्छन्दसामेव स रसेनावद्यती'त्यत्राङ्गविधावर्थवादमानं फलनिर्देशः। ततः सिद्धान्तसूत्रं 'फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्यात्' इति । आत्रेय आचार्यः । फलविधिमेव मन्यते सः। फलं ह्यवश्यं कल्प्यम्, तच्च निर्दिष्टमेव, अश्रुतौ ह्यनुमानं कल्पना भवतीति । अत्र चार्थवादविचारे पूर्वपक्षावस्थायां
20 'सोऽरोदीदि'त्याद्या उदाहृताः, सिद्धान्ते तु वायुर्वं क्षेपिष्ठे'त्यादयः; तत्र कोऽभिप्रायः। उच्यते । तेषु स्वार्थासत्यत्वाशङ्का विद्यते, अमीषु तु स्वार्थासत्यत्वाशङ्काया अभावः ! एषाञ्चैकवाक्यत्वं विधिना साधयितुं पारितं तदनेनैव न्यायेन तेषामपि सेत्स्यतीति ।
कि अर्थप्रकाशनद्वारेणेति । प्रयोगकाले योऽयं मन्त्राणां पाठः स किं प्रयोज्यान् पदार्थान् प्रकाशयितुं तेषां स्मरणाय उत अदृष्टार्थ मुच्चारणमात्रमिति । उरुप्रथा उरु प्रथस्व । त्वं पुरोडाश उरुप्रथाः उरु कृत्वा प्रथस्व इति । उरुप्रथाः प्रथःशब्दः सान्तः। ' अत उरु विस्तीर्णं कृत्वा प्रथस्व विस्तारं भजेति । प्रथयति पिण्डरूपं सन्तमपूपरूपं
५२