________________
भाह्निकम् ]
प्रमाण प्रकरणम्
पदेशाद् अप्रामाण्यमेवावत रति, रोदनवपोत्खेदनदिङ्मोहादेरर्थस्य तथात्वनिश्चयाभावात् ।
किश्व ' स्तेनं मनोऽनृतवादिनी वागित्येवं जातीयकानामर्थवादवाक्यानां विस्पष्टमेव प्रमाणान्तरविरुद्धार्थप्रत्यायकत्वम् । न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाग् भवति स्तेनं वा मनः ।
अपि च 'धूम एवाग्नेदिवा ददृशे नाचिरचिरेवाग्नेर्नक्तं ददृशे न धूमः ' इति प्रत्यक्षविरुद्धमिदमभिधीयते, नक्तन्दिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे सति ग्रहणात् ।
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते ' शोभतेऽस्य मुखं य एवं वेदे 'ति न हि कस्यचिदेवंविदतो मुखं शोभते इति प्रत्यक्षविरोधः ।
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति 'पूर्णाहुत्या सर्वान् कामानवाप्नोति', 'पशुबन्धयाजी सर्वांल्लोकानभिजयति' 'तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते यश्चैवं वेदेति' । यदि पूर्णाहुत्यैव सर्वकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः, अश्वमेधवेदनेनैव तत्फलावाप्तिस्तत् किमर्थमन्यकर्मों
४०१
fara 'एन्न विद्म यदि ब्राह्मणा: स्मोऽब्राह्मणा वे 'ति ब्राह्मणजातेरुपदेशसहाय प्रत्यक्ष गम्यत्वात् तद्विरुद्ध एषोऽर्थवादः । शास्त्रविरोधोऽप्यस्ति "को ह वै 10 तद्वेद यदमुष्मिँल्लोकेऽस्ति वा न वे 'ति । शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणामुपदेशात् केयमनवक्लृप्तिः ?
5
नवेति ।
15
ग्रहणयोग्यं वस्तु, सिद्धत्वात्; सिद्धं हि वस्तु लोके प्रमाणान्तरग्राह्यमेव 'राजा याति' वत् शब्देन प्रतिपाद्यमानं दृष्टम्, अतो वेदेऽपि तथैव भवितुमर्हति । न च प्रमाणान्तरेण 20 रुद्रादिरोदनग्रहणसम्भवः । रोदनस्य ग्रहणाभावादेव प्रमाणान्तरविरुद्धत्वम् । वपोत्खेदनादीनां तु विपर्ययग्रहणात् ।
को हवं तद्वेदेति । को वै तद्वेद, नैव कचिज्जानाति परलोके फलमस्ति
त्रिरात्रब्राह्मणमिति । गर्गत्रिरात्राख्यस्याहीनस्य क्रतोः प्रतिपादकं ब्राह्मणं 25 गर्गत्रिरात्रब्राह्मणम् ।
आधानान्ते होमविशेष: पूर्णाहुतिः । यश्चैवं वेद यश्चाश्वमेधमन्त्रब्राह्मणार्थं
जानाति ।
५१