________________
४००
न्यायमञ्जयां
[ चतुर्थम् अभ्यासे पौनरुक्त्यञ्च कार्यार्थत्वाददूषणम् ।
संपाद्यं पाञ्चदश्यं हि सामिधेनीषु चोदितम् ॥ 'इममहं पञ्चदशारेण वज्रणापबाधे योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म' इति श्रूयते। एकादशसामिधन्य ऋचः पठ्यन्ते। तत्राभ्यासमन्तरेण पाञ्चदश्यं नावकल्पते 5 इत्येवमवश्यकर्त्तव्योऽभ्यासः। स चायमनियमेन प्राप्तो वचनेन नियम्यते प्रथमोत्तमे ऋचौ त्रिरुच्चारणीये इति । तस्मात् तत्प्रयोजनार्थत्वान्न पुनरुक्ततादोषः ।
अभ्यासे फलरहिते हि पौनरुक्त्यं दोषः स्यादिह तु न तस्य निष्फलत्वम् । व्याघातानृतपुनरुक्ततादि तस्माद् वेदस्य श्लथयति न प्रमाणभावम् ॥ इयञ्च वाक्यार्थविचारणापि प्रामाण्यसिद्धयौपयिकीति मत्वा । चक्रे स्वशास्त्र मुनिनेह वेदप्रामाण्यनिर्वाहणदीक्षितेन ॥ ननु नाद्यापि वेदस्य भवद्धिनिपुणरपि ।
स्वदेहसम्भवा दोषा निखिलाः परिपिञ्जिताः। अर्थवादानामनिश्चितार्थकत्वाद् वेदाप्रामाण्यम्
तथा हि 'सोऽरोदीद् यदरोदीत् तद्रुद्रस्य रुद्रत्वम्। प्रजापतिरात्मनो वपामुदखिदत् तामग्नौ प्रागृह्णात् ततोऽजस्तूपर उदगात् । देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' इत्येवमादीनामर्थवादानां किं यथाश्रुतवस्तुपरत्वम्, उत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम्, उत लिडादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपाौंपयिकत्वमिति चिन्त्यम्। सर्वथा च प्रमादः । स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धार्थो
पञ्चदशेति पञ्चदशसङ्ख्यासम्पत्त्या वज्रभूतया।
सोऽरोदीदिति । स ( अत्रत्यष्टीकाग्रन्थः खण्डितः ) उदखिदत् 2. उदहरत् । प्रागृह्णात् प्राक्षिपत् । तूपरः शृङ्गरहितः पशुः । देवयजनेति
देवा इज्यन्ते यस्मिस्तद् यज्ञस्थानमस्मिन्नस्माभिर्यष्टव्यमित्यध्यवसाय निश्चित्य । तथात्वनिश्चयाभावादिति । रोदनादि हि प्रमाणान्तर
20