________________
आह्निकम् ]
प्रमाण प्रकरणम्
यागस्य वा शक्तिरग्निशब्देनोच्यते । न चानियोगो वाक्यार्थ एवापूर्वशब्दवाच्यः, तस्योपरिष्टादपाकरिष्यमाणत्वात् । नापि यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षते इति यागादिसामानाधिकरण्येन प्रयोगात् स एव धर्मशब्दवाच्य इति युक्तं वक्तुम्, तस्य क्षणिकत्वेन कालान्तरे फलदातृत्वानुपपत्तेः सामानाधिकरण्यप्रयोगोऽपि चैकान्ततो नास्त्येव ।
यागदानादिना धर्मो भवतीत्यपि लौकिकाः । प्रयोगाः सन्ति ते चामी संस्क्रियापक्षसाक्षिणः ॥
एवं 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति वैदिकोऽपि प्रयोगस्तद्विषय एव व्याख्येयः, तस्य स्थायित्वेन कालान्तरे फलदानयोग्यतोपपत्तेः ।
संस्कारो नृगुणः स्थायी तस्माद्धर्म इति स्थितम् । तस्माच्च फलनिष्पत्तेर्न चित्रादौ मृषार्थता ॥
यदपि यज्ञाधिवाक्ये प्रत्यक्षविरुद्धत्वमुपपाद्यते स्म भस्मीभावोपलम्भात् कायस्येति तदप्यसमीचीनम् । एष इति शरीराभेदोपचारेणात्मन एव निर्देशात् तस्य च स्वर्गगमनं भवत्येव । गमनञ्च तदुपभोग एव तस्योच्यते यथा शरीरादियोगवियोग जन्ममरण इति । न तु व्यापिनः परिस्पन्दात्मकक्रियायोग उपपद्यते । ज्ञानचिकीर्षा प्रयत्नसमवायश्च तस्य कर्तृत्वमिति वर्णयिष्यते । यज्ञायुधसम्बन्धोऽपि स्वस्वामिभावादिः, तस्यैव व्यापकत्वाविशेषेऽपि व्यवस्थयोपपद्यते इति न कश्चिदत्र विरोधः । तस्मात् सर्वत्र निरवकाशमनृतत्वादिदूषणम् ।
aise वनकालfविध व्याघातदोषो दर्शितः सोऽपि न दोष एव ।
तत्रानुष्ठानभेदेन कालत्रितयचोदनात् ।
यो यस्य चोदितः कालो लङ्घनीयो न तेन सः ॥
ततश्चान्यतमं कालमभ्युपेत्यैनमुज्झतः । निन्देति न विरोधोऽत्र कश्विद्विधिनिषेधयोः ॥
ननु व्यापकत्वादात्मनां यज्ञायुधीति कथमेकस्यैव व्यपदेश इत्याह यज्ञायुधम्बन्धोऽपीति । व्यवस्था यस्य तानि यज्ञायुधानि तस्यैव उपकारकाणि नान्येषाम् ।
३९९
5
10
15
20
25