________________
३९८
5
10
न्यायमञ्जय
यद्यप्याफलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः । तथाप्यस्त्येव संस्कारः पुरुषस्य तदाहितः ॥ कर्मजन्यो हि संस्कारः पुंसां बुद्ध्यादिवद् गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ यथेन्द्रियादिसंयोगादात्मनो बुद्धिसम्भवः । तथा यागादिकर्मभ्यस्तस्य संस्कारसंभवः ॥ बुद्धिस्तु भगुरा तस्य संस्कारस्तु फलावधिः । साध्यसाधनभावो हि नान्यथा फलकर्मणोः ॥ स्मृतिबीजन्तु संस्कारस्तस्यान्यंरपि मृष्यते । तथैव फलसंयोगबीजं सोऽस्य भविष्यति ॥ स यागदान होमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ।।
[ चतुर्थभ
धर्मपदार्थस्वरूपविषये मतान्तरखण्डनम्
कापिलस्तु अन्तःकरणस्य बुद्धेर्वृत्तिविशेषमाहुः । आर्हताः पुण्यपुद्गलान् 15. धर्मत्वेन व्यपदिशन्ति । शाक्यभिक्षवश्चित्तवासनां धर्ममाचक्षते । वृद्धमीमांसका यागादिकर्मनिर्वर्त्यमपूर्वं नाम धर्ममभिवदन्ति । यागादिकर्मैव शाबरा ब्रुवते । arrer एव नियोगात्मा अपूर्वशब्दवाच्यो धर्मशब्देन स एवोच्यते इति प्राभाकराः कथयन्ति ।
तत्र पुण्यपुद्गलवृत्तिपक्षयोः कपिलार्हद्ग्रन्थकथित यो स्तन्मतनिरासादेव 20 निरासः । आत्मनश्च समर्थयिष्यमाणत्त्वात् तस्यैव वासना न चेतस इति सौगतपक्षोऽप्ययुक्तः । स्वर्गयागान्तरालवत्तनश्च स्थिरस्य निराधारस्यापूर्वस्य निष्प्रमाणकत्वाज्जरज्जैमिनीयप्रवादोऽप्यपेशलः । अपि च फलस्य वा काचिदुत्पद्यमानदशा
पास्त्विति । यागब्रह्महत्यादिक्रियाभिनिष्पन्नसंस्कारो योऽभिव्यज्यमानः प्रकाशरूपबुद्धिवृत्तिस्वरूपो विशिष्टफलहेतुर्धर्माधर्माविति साङ्ख्याः । पुण्यपुद्गलेति । 25 पुण्यपुद्गलाः पुण्यपरमाणवः । निराधारस्यापूर्वस्येति । ते हि क्रियानिर्वत्र्यं क्रियाभिव्यङ्ग्यम् आश्रितमेवा पूर्वमाहुः ।