________________
आह्नकम् ]
प्रमाणप्रकरणम् रभिलष्यते इहापिदौर्गत्योद्वेगादासन्नतयव पशवः काम्यन्ते । तस्माद् वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः' इत्यादिवचनोपदिष्ट सामान्यसुखसाधनादृष्टनिबन्धनवेयम्। इहाकृतकर्मणांवृष्टिपश्वादिसम्पदिति न बृहस्पतिमतवदकर्मनिमित्तं फलम्। नापि कर्मफलसाध्यसाधनभावनियमव्यवहारोल्लङ्घनमिति । यच्च कारोः क्वचित् फलसंवादे समाधानमुक्तम्
'फलति यदि न सर्व तत् कदाचित् तदेव ।
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते' ॥ इति । तेन साप्पनियतफलव स्याद् । न हि तत् कर्मान्तरमासंसारं प्रतिबन्धकं भवति फलोपभोगाद्धि तस्यावश्यं क्षयेण भवितव्यम् । प्रतिबन्धके च क्षीणे कारीर्या स्वफलं तदा दातव्यमेव । साप्यदत्तफला न क्षीयते एव इत्येवं जन्मान्तरे 10 तत्फलसम्भवात् तस्य अनियतफलत्वम् । अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वमस्माभिरिष्यते एव यत्र सम्यक प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः कल्पते । सर्वथा र द्यःफलत्वमात्रवर्ज समानयोगक्षेमा कारी चित्रेष्टिः । एतेन ब्रह्मवर्चसवीर्यान्नाद्यग्रामादिकामेष्टयोऽपि व्याख्याताः। तस्माद् यथाश्रुतमेव बोद्धव्यम् ।
। यदप्यभ्यधायि समग्राङ्गोपसंहारेण काम्यकर्मप्रयोगात् कुतः कर्मणो वैगुण्यावसरः ? इति तदप्यसारम् । सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादादसंवेद्यमानवगुण्यसम्भवात् । स च विचित्रः प्रदशितो भाष्यकारेण । तस्मात् पूर्वोक्त एव प्रतिसमाधानमार्गः श्रेयान् । कर्मणामदृष्टद्वारैव फलजनकत्वम्
20 यत् पुनः पूर्वपाक्षिकेण कथितं कालान्तरे कर्माभावात् कुतः फलमिति, तदपि न सम्यक्
यथाश्रुतमेव स्वर्गादिफलापेक्षयैव शेषत्वमिति ।
प्रदर्शितो भाष्यकारेणेति । 'कर्मक साधनवैगुण्यात्' इति सूत्रव्याख्याने प्रदर्शितः, तथैव प्राक् प्रतिपादितोऽस्माभिः ।