________________
३९६
5
न्यायमञ्जय
[ चतुर्थम्
यस्तु चित्रादीनामनियतफलत्वे न्याय उक्तः 'चित्रादीनां फलं तावत् क्षीणं तत्रैव जन्मनि' इत्यादि, स कारोर्यामपि निश्चितैहिकफलायां योजयितु ं शक्यः ।
तस्मात् साप्यनियतफला भवतु । अथ सस्यसम्पत्सम्पाद्य सुखसम्भोगसाधनभूतादृष्टनिमित्ता कारीरीष्टिरद्या कृतायामपि कार्यामिति मन्यसे ? तर्हि दधिक्षीरादिभक्षणसुखाक्षेपिकर्मनिमित्तक: पशुलाभो भविष्यति । अकृतचित्रायागानां कार्यधीन ओदनः, चित्रादीनां दधीति, दध्योदन भोजनसुखसाधनादृष्टकारिता पशुवृष्टि सृष्टिर्भवतु | अथ शृङ्गग्राहिकया पशुफला चित्रेष्टिरुपदिश्यते तेन न सुख10 सामान्याक्षेपिकर्म निबन्धन: पशुलाभः ? एवं तहि वृष्टावपि शृङ्गग्राहिकया कारीरी पठ्यत एवेति वृष्टिरपि सामान्यादृष्टनिबन्धना मा भूत् ?
'अथ न यदि वर्षेच्छ्वोभूते जहुयादि त्यादिवचनपर्यालोचनया तस्यामैहिकफलत्वमुच्यते । यद्येवं यत्र तादृशं वचनं नास्ति 'यो वृष्टिकामः स सौभरेण स्तुवीत यदि कामयेत वर्षेत्पर्जन्यः' इति 'नीचैः सदो मिनुयादित्यादौ, तत्र पारलौकिक15 फलत्वं स्यात् ? यदि च 'श्वोभूते जुहुयादिति वचनमहिम्नैव फले सद्यस्त्वमात्रमधिकं भवतु, तादृशवचनरहितानां कर्मणां विस्पष्टसिद्धमप्यैहिकफलत्वं निवर्त्तते ।
20
taratri काय न हि देवो न वर्षति । जन्मान्तरकृता तत्र कारीरी किं न कारणम् ॥
यत् पुनर्बहु साधारणत्वेन वृष्टरेंहिकत्वमुच्यते तदपि पश्वादौ समानम् । न ह्यात्मम्भरिरेव यजमानो भवति, तस्यापि स्ववासिनी कुमारातिथिभृत्यादिभोजनपूर्वकस्वभोजननियमोपदेशाद् । बहुतरोपकारकत्वन्तु वृष्टेरित्यलं तुलया ।
यदपि प्रत्यासन्नत्वेन काम्यमानत्वाद् वृष्टेरैहिकत्वं कथ्यते तदपि तादृगेव, पश्वादेरपि तथैव काम्यमानत्वात् । तत्रावग्रहविहितसन्तापतया प्रत्यासन्नत्वेन वृष्टि
क्षीणं तत्रैव जन्मनि । 'न च स्वर्गफलस्येह कश्चिदशोऽनुवर्तते' इति शेषः ।
यो वृष्टिकाम इति । यो वृष्टिकामः स सौभरेण स्तोत्रविशेषेण स्तुवीतेत्येतावदेवोक्तम् । तत्र 'यदि न वर्षेत्' इत्यादि नोक्तम् । यदि कामयेतेति । सदो यत्र होत्रादयः 25 ऋत्विजो याज्यानुवाक्यास्तोत्रादिपाठव्यापारमुपविष्टाः सम्पादयन्ति तन्नीचैर्मिनुयात् अनुच्चाः स्थूणास्तत्र निदध्यादित्यर्थः ।