________________
आह्निकम् ]
प्रमाणप्रकरणम्
३९५
निष्पद्यन्ते । चित्रा च पशुफला इह जन्मनि तैनं कृतव, पूर्वजन्मकृता तु तस्मिन्नेव जन्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसम्पत्? ननु गौतम वचनप्रामाण्यात पूर्वकृतभुक्तशिष्टज्योतिष्टोमादिकर्मनिमित्तकः पशुलाभो भविव्यति ? यथोक्तम् ‘वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य फलमनुभूय पतन्तः शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्त इति । नैतद् यथाश्रुतं 5
बोद्धं युक्तम्
न ह्यन्यफलकं कर्म दातुमीष्टे फलान्तरम् ।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ॥ तस्मात् समूहापेक्षाशेषवाचोयुक्तियाख्येया। बहूनि कर्माणि वर्णा आश्रमाश्च कृतवन्तः, ततः कर्मसमूहाज्ज्योतिष्टोमादिफलं प्रेत्यानुभूयते, ततः शेषेण चित्रा- 10 दिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्ते इत्यर्थः । तस्मात् पूर्वजन्मकृतचित्रादिनिबन्धन इह जन्मनि पशुलाभो नाकर्मनिमित्तको नान्यकर्मनिमित्तक इत्येवमनियतफलत्वाच्चित्रादेरिह जन्मनि फलादर्शनेऽपि नानृतत्वं तच्चोदनानां, जन्मान्तरे हि ता इष्टयः फलं दास्यन्तीति । वेदप्रामाण्यशङ्कानिरासे प्रकारान्तरम्
___ अत्रोच्यते, किं वाचनिकमेतत् कर्मणां त्रैविध्यम् ? अथ विधिवृत्तपरीक्षागम्यम्, आहो फलरूपपर्यालोचनया लभ्यम्, उत पुरुषेच्छाधीनमिति । तत्र वचनं तावत्रिविधविभागप्रतिपादकं नास्ति 'कारीरी निर्वपेद् वृष्टिकामः' 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति 'चित्रया पशुकामः' इत्येतावन्मात्रश्रवणम्। न ह्यत्रैहिकत्वं पारलौकि कत्वमनियतत्वं वा फलस्य क्वचित पठितम। विधिवत्तमपीयदेव यत् सप्रत्ययप्रवर्तनं 20 नाम ।तत्रइदमेवंकामेन कर्तव्यमित्येतावॉल्लिङर्थः । अपुरुषार्थरूपे तुव्यापारे प्रवर्तकत्वलक्षणस्वव्यापारनिर्वहणमनधिगच्छन् विधिरधिकारिविशेषणस्य काम्यमानस्य स्वर्गादेः, भावार्थस्य च यागादेः साध्यसाधनसम्बन्धमाक्षिपति, न काम्यमानस्य सद्यः कालान्तरे वा निष्पत्तिमाक्षिपतीति । फलस्वरूपपर्यालोचनया तु सत्यं स्वर्गस्य पारलौकिकत्वमवगम्यते न तु पश्वादेनियमः । पुरुषेच्छा तु पुरुषेच्छव, न तया । शास्त्रार्थो व्यवस्थापयितुं शक्यः । तस्मानिष्प्रमाणकं त्रैविध्यम् ।
सप्रत्ययप्रवर्तनमिति । सचेतनो हि कथं निष्फले प्रवर्ततेति ।