________________
३९४ न्यायमञ्जयां
[ चतुर्थम् वेदप्रामाण्यसमर्थने मतानन्तरम्
अन्ये कादिवगुण्यकल्पनाननुमोदिनः।
इहाफलस्य चित्रादेः फलमामुत्रिकं जगुः । सर्वाङ्गोपसंहारेण काम्यकर्मप्रयोगात् कोऽवसरः कर्मवैगुण्यकल्पनायाम ? 5 जन्मातरे तु तत्फलमिति कल्पना।
तथा च त्रिविधं कर्म किञ्चिदैहिकफलमेव किञ्चिदनियतफलमेव किञ्चिदामुष्मिकफलमेव इति कल्पना।
तत्र कारीर्यादि तावदैहिकफलमेव । तद्धि सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते । वृष्टिलक्षणञ्च तत्फलं स्वभावत एव सकललोकसाधारणम् । आस10 नतयैव तदभिलषणीयमिति सद्य एव भवितुमर्हति । वचनानि च तत्र तादृश्येव
दृश्यन्ते 'यदि वर्षे तावत्येवेष्टि समापयेद् यदि न वर्षेच्छ्वोभूते जुहुयादि'ति । आमुष्मिकफलन्तु कर्म ज्योतिष्टोमादि फलस्वभावमहिम्नव पारलौकिकफलं भवति ।
स्वर्गो निरुपमा प्रीतिशो वा तद्विशेषणः।
भोक्तुं नोभयथाप्येष देहेनानेन शक्यते ॥ चित्रादि त्वनियतफलं कर्म । तत्कलस्य पश्वादेरिह वा परत्र वा लोके सम्भवात्, अवश्यं चैतदेवं विज्ञेयम् । तथा ह्यकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्मनिमित्तत्वहाने बृहस्पतिमतानुप्रवेशप्रसङ्गः । कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्मेति निरूपणीयम्। न हि ब्रह्मवर्चसफलात् कर्मणः पशवो
कादिवैगुण्येति । कादिवैगुण्यं फलादर्शने कारणमननुमोदमानाः।
सर्वाङ्गोपसंहारेणेति । यदा सर्वाङ्गान्युपसंहर्तुं शक्नुयात् तदा काम्यं कुर्यादिति व्यवस्थापनात् ।
अवग्रहे वर्षप्रतिबन्धे । श्वोभूते जुहुयाद् । द्वितीये दिने होमशेषं समापयेद् ।
ननूपनयनादेब्रह्मवर्चसादिफलात् कर्मणः पशवो भविष्यन्तीत्याशङ्क्याह न हि ब्रह्मवर्चसफलादिति ।
25